नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा । कपर्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात्
स्वप्ने रुष्टं ब्राह्मणं च ब्राह्मणीं कोपसंयुताम् । विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम्
वनपुष्पं रक्तपुष्पं पलाशं च सुपुष्पितम् । कार्पासं शुक्लवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात्
गायन्तीं च हसन्तीं च कृष्णाम्बरधरां स्त्रियम् । दृष्ट्वा कृष्णां च विधवां नरो मृत्युमवाप्नुयात्
देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च । आस्फोटयन्ति धावन्ति तस्य देहो मरिष्यति
वान्तं मूत्रं पुरीषं च वैद्यं रौप्यं सुवर्णकम् । प्रत्यक्षमथवा स्वप्ने जीवितं दशमावधि
कृष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् । उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति
मृतवत्सं च मुण्डं च मृगस्य च नरस्य च । यः प्राप्तोत्यस्थिमालां च विपत्तिस्तस्य निश्चितम्
रथं खरोष्ट्रसंयुक्तमेकाकी योऽधिरोहयेत् । तत्रस्थोऽपि च जागर्ति मृत्युरेव न संशयः
अम्यङ्गिस्तु हविषा क्षीरेण मधुनाऽपि च । तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम्
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपराम् । उपगूहति यः स्वप्ने तस्य व्याधिर्विनिश्चितम्
पतितान्नखरेशांश्च निर्वाणाङ्गारमेव च । भस्मबूर्णां चितां दृष्ट्वा लभते मृत्युमेव च
श्मशानं शुष्ककाष्ठं च तृणानि लोहमेव च । शमीं च किं चित्कृष्णाश्वं दृष्ट्वा दुःखं लभेद्ध्रुवम्
पादुकां फलकं रक्तं पुष्पमाल्यं भयानकम् । माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत्
कटकं सरठं काकं भल्लूकं वानरं गवम् । पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम्
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठं च रोगिणम् । रक्ताम्बरं च जटिलं सूकरं महिषं खरम्
अन्धकारं महाघोरं मृतजीवं भयंकरम् । दृष्ट्वा स्वप्ने योनिलिङ्ग विपत्तिं लभतेध्रुवम्
कुवेषरुपं मलेच्छं च यमदूतं भयंकरम् । पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः
ब्रह्मणो ब्राह्मणी बाला बालको वा सुतः सुता । विलापं कुरुते कोपाद्दृष्ट्वा दुःखमवाप्नुयात्
कृष्णं पुष्पं च तन्माल्यं सस्यं शस्त्रास्त्रधारिणम् । म्लेच्छां च विकृताकारं दृष्ट्वा मृत्युंलभेद्ध्रुवम्
त्यक्तप्राणं मृतं दृष्ट्वा मृत्युं च लभते ध्रुवम् । मत्स्यादि धारयेद्यो हि तद्भ्रातुर्मरणं ध्रुवम्
वाद्यं च नर्तनं गीतं गायनं रक्तवाससम् । मृदङ्गवाद्यमानं तं दृष्ट्वा दुःखं लभेद्ध्रुवम्
छिन्नं वाऽपि कबन्धं वा विकृतं मुक्तकेशिनम् । क्षिपं नृत्यं च कुर्वन्तं दृष्ट्वा मृत्युं लभेन्नरः
मृतो वाऽपि मृता वाऽपि कृष्णा म्लेच्छा भयानका । उपगूहति यं स्वप्ने तस्य मृत्युर्विनिश्चितम्
येषां दन्ताश्च भग्नाश्च केशाश्चापि पतन्ति हि । धनहानिर्भवेत्तस्य पीडा वा तच्छरीरजा
उपद्रवन्ति यं स्वप्ने श्रृङ्गिणो दंष्ट्रिणोऽपि वा । बालका मानवाश्चैव तस्य राजकुलाद्भयम्
छिन्नवृङं पतन्तं च शिलावृष्टिं तुषंक्षुरम् । रक्ताङ्गारं भस्मवृष्टिं दृष्ट्वा दुःखमावाप्नुयात्
गृहं पतन्तं शैलं वा धूमकेतुं भयानकम् । भग्नस्कन्धं तरोर्वाऽपि दृष्ट्वा दुःखमवाप्नुयात्
रथगेहशैलवृक्षगोहस्तितुरगाम्बरात् । भूमौ पतति यः स्वप्ने विपत्तिस्तस्य निश्चितम्
उच्चैः पतन्ति गर्तेषु भस्माङ्गारयुतेषु च । क्षारकुण्डेषु चूर्णेषु मृत्युस्तेषां न संशयः