एतत्ते कथितं नन्द ह्याख्यानं पुण्यदं शुभम् । एतच्छ्रु त्वा तु निष्पापो निष्कलङ्की नरो भवेत्
धन्यं यशस्यमायुष्यं सर्वसंपत्करं परम् । शोकापनोदनं हर्षकरं मर्वत्र मङ्गलम्
त्यज शोकं सदा नन्द गृहं व्रज व्रजेश्वर । ब्रूहि सर्वं यशोदां च मत्प्रसूं गोपिकागणम्
बोधयिष्यसि सर्वां तां स्त्रीजातिं शोकसंयुताम् । सदीयज्ञानदत्तेन हर्षयुक्तः सदा भव
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo ताराहरणं नामैकाशीतितमोऽध्यायः
अथ द्व्यशीतितमोऽध्यायः नन्द उवाच श्रुतं सर्वं महाभाग दुःस्वप्नं कथय प्रभो । उवाच तं वै भगवाञ्छ्रूयतामिति तद्वचः
श्रीभगवानुवाच स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति । नर्तनं गीतमिष्टं च विपत्तिस्तस्य निश्चितम्
दन्ता यस्य विबीड्यन्ते विचरन्तं च पश्यति । धनहानिर्भवेत्तस्य पीडा चापि शरीरजा
अम्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम् । खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः
स्वपने कर्णे जपापुष्पमशोकं करवीरकम् । विपत्तिस्तस्य तैलं च लवणं यदि पश्यति
नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा । कपर्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात्
स्वप्ने रुष्टं ब्राह्मणं च ब्राह्मणीं कोपसंयुताम् । विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम्
वनपुष्पं रक्तपुष्पं पलाशं च सुपुष्पितम् । कार्पासं शुक्लवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात्
गायन्तीं च हसन्तीं च कृष्णाम्बरधरां स्त्रियम् । दृष्ट्वा कृष्णां च विधवां नरो मृत्युमवाप्नुयात्
देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च । आस्फोटयन्ति धावन्ति तस्य देहो मरिष्यति
वान्तं मूत्रं पुरीषं च वैद्यं रौप्यं सुवर्णकम् । प्रत्यक्षमथवा स्वप्ने जीवितं दशमावधि
कृष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् । उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति
मृतवत्सं च मुण्डं च मृगस्य च नरस्य च । यः प्राप्तोत्यस्थिमालां च विपत्तिस्तस्य निश्चितम्
रथं खरोष्ट्रसंयुक्तमेकाकी योऽधिरोहयेत् । तत्रस्थोऽपि च जागर्ति मृत्युरेव न संशयः
अम्यङ्गिस्तु हविषा क्षीरेण मधुनाऽपि च । तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम्
रक्ताम्बरधरां नारीं रक्तमाल्यानुलेपराम् । उपगूहति यः स्वप्ने तस्य व्याधिर्विनिश्चितम्
पतितान्नखरेशांश्च निर्वाणाङ्गारमेव च । भस्मबूर्णां चितां दृष्ट्वा लभते मृत्युमेव च
श्मशानं शुष्ककाष्ठं च तृणानि लोहमेव च । शमीं च किं चित्कृष्णाश्वं दृष्ट्वा दुःखं लभेद्ध्रुवम्
पादुकां फलकं रक्तं पुष्पमाल्यं भयानकम् । माषं मसूरं मुद्गं वा दृष्ट्वा सद्यो व्रणं लभेत्
कटकं सरठं काकं भल्लूकं वानरं गवम् । पूयं गात्रमलं स्वप्ने केवलं व्याधिकारणम्
भग्नभाण्डं क्षतं शूद्रं गलत्कुष्ठं च रोगिणम् । रक्ताम्बरं च जटिलं सूकरं महिषं खरम्
अन्धकारं महाघोरं मृतजीवं भयंकरम् । दृष्ट्वा स्वप्ने योनिलिङ्ग विपत्तिं लभतेध्रुवम्
कुवेषरुपं मलेच्छं च यमदूतं भयंकरम् । पाशहस्तं पाशशस्त्रं दृष्ट्वा मृत्युं लभेन्नरः
ब्रह्मणो ब्राह्मणी बाला बालको वा सुतः सुता । विलापं कुरुते कोपाद्दृष्ट्वा दुःखमवाप्नुयात्
कृष्णं पुष्पं च तन्माल्यं सस्यं शस्त्रास्त्रधारिणम् । म्लेच्छां च विकृताकारं दृष्ट्वा मृत्युंलभेद्ध्रुवम्