यस्माद्भाद्रचतुर्थ्यां तु गुरुपत्नीक्षतिः कृता । तस्मात्तस्मिन्दिने वत्स पापदृश्यो युगे युगे
नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम्
देहत्यागेन हे वत्स कर्मभोगो न नश्यति । प्रायश्चित्तान्न संदेहो ङ्यस्तमेव भविष्यति
ताराबहरणावत्स कलङ्कश्चन्द्रमण्डले । मृगाकृतिर्विलग्नश्च भविष्यति युगे युगे
शृणु वाक्यमिहाऽऽगच्छ तारके च पतिव्रते । सत्यं ब्रूहि कस्य गर्भंत्यक्त्वा शुद्धाभव प्रिये
अकामतो बलात्साध्वी न स्त्री जारेण दुष्यति । कामतो नरकं याति यावच्चन्द्रदिवाकरौ
उवाच तारा ब्रह्माणं गर्भं चन्द्रस्य सस्मितम् । जहसुर्देवताः सर्वाः शंभुश्च मुनिसंघकाः
ददौ तारां च गुरवे लज्जिताय व्रजेश्वर । बृहस्पतिर्ययौ गेहं गृहीत्वा च पतिव्रताम्
तया प्रसूतं पुत्रं च सुन्दरं कनकप्रभम् । गृहीत्वाप्रययौ चन्दौनमस्कृत्य विधिं शिवाम्
ययुर्देवाश्च मुनयः शंभुश्च कमलोद्भवः । प्रययौ स्वगृहं शुक्रौ दैत्ययुक्तौ मुदाऽन्वितः
एतत्ते कथितं नन्द ह्याख्यानं पुण्यदं शुभम् । एतच्छ्रु त्वा तु निष्पापो निष्कलङ्की नरो भवेत्
धन्यं यशस्यमायुष्यं सर्वसंपत्करं परम् । शोकापनोदनं हर्षकरं मर्वत्र मङ्गलम्
त्यज शोकं सदा नन्द गृहं व्रज व्रजेश्वर । ब्रूहि सर्वं यशोदां च मत्प्रसूं गोपिकागणम्
बोधयिष्यसि सर्वां तां स्त्रीजातिं शोकसंयुताम् । सदीयज्ञानदत्तेन हर्षयुक्तः सदा भव
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo ताराहरणं नामैकाशीतितमोऽध्यायः
अथ द्व्यशीतितमोऽध्यायः नन्द उवाच श्रुतं सर्वं महाभाग दुःस्वप्नं कथय प्रभो । उवाच तं वै भगवाञ्छ्रूयतामिति तद्वचः
श्रीभगवानुवाच स्वप्ने हसति यो हर्षाद्विवाहं यदि पश्यति । नर्तनं गीतमिष्टं च विपत्तिस्तस्य निश्चितम्
दन्ता यस्य विबीड्यन्ते विचरन्तं च पश्यति । धनहानिर्भवेत्तस्य पीडा चापि शरीरजा
अम्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणां दिशम् । खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः
स्वपने कर्णे जपापुष्पमशोकं करवीरकम् । विपत्तिस्तस्य तैलं च लवणं यदि पश्यति
नग्नां कृष्णां छिन्ननासां शूद्रस्य विधवां तथा । कपर्दकं तालफलं दृष्ट्वा शोकमवाप्नुयात्
स्वप्ने रुष्टं ब्राह्मणं च ब्राह्मणीं कोपसंयुताम् । विपत्तिश्च भवेत्तस्य लक्ष्मीर्याति गृहाद्ध्रुवम्
वनपुष्पं रक्तपुष्पं पलाशं च सुपुष्पितम् । कार्पासं शुक्लवस्त्रं च दृष्ट्वा दुःखमवाप्नुयात्
गायन्तीं च हसन्तीं च कृष्णाम्बरधरां स्त्रियम् । दृष्ट्वा कृष्णां च विधवां नरो मृत्युमवाप्नुयात्
देवता यत्र नृत्यन्ति गायन्ति च हसन्ति च । आस्फोटयन्ति धावन्ति तस्य देहो मरिष्यति
वान्तं मूत्रं पुरीषं च वैद्यं रौप्यं सुवर्णकम् । प्रत्यक्षमथवा स्वप्ने जीवितं दशमावधि
कृष्णाम्बरधरां नारीं कृष्णमाल्यानुलेपनाम् । उपगूहति यः स्वप्ने तस्य मृत्युर्भविष्यति
मृतवत्सं च मुण्डं च मृगस्य च नरस्य च । यः प्राप्तोत्यस्थिमालां च विपत्तिस्तस्य निश्चितम्
रथं खरोष्ट्रसंयुक्तमेकाकी योऽधिरोहयेत् । तत्रस्थोऽपि च जागर्ति मृत्युरेव न संशयः
अम्यङ्गिस्तु हविषा क्षीरेण मधुनाऽपि च । तक्रेणापि गुडेनैव पीडा तस्य विनिश्चितम्