प्रस्तुतं देवसैन्यं च पश्य वत्स रणोद्यतम् । अहं शंभुस्त्वत्समीपं तदर्थं च समागतौ
शंभुरुवाच चन्द्रमानय हे विप्र यद्यात्मशिवमिच्छसि । संहरिष्ये सिरस्तस्य त्रिशूरेन च पापिनः
अन्यथा संहरिष्यामि सर्वदैत्यान्क्षणेन च । मयि रुष्टे रक्षिता को दैत्यानां च भवेद्द्विज
सद्यः पाशुपतेनैव वाय्वस्त्रेण च र्सांप्रतम् । सुराणां रिपुवर्गं च हरिष्यामि च लीलया
दुर्वाससो मदंशस्य गुरुस्तस्याङ्गिरा सुनिः । परस्पराच्च संबन्धाद्गुरुपुत्रो गुरुर्मम
बृहस्पतिश्च तेजस्वी तं भस्मीकर्तुमीश्वरः । न चकार कृपालुश्चेत्प्रियशिष्येण हेतुना
उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः । तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती
पत्नीं मद्गुरुपुत्रस्य देहि तार्रां मनोहराम् । मद्वैरिणं च चन्द्रं च भ्रादृभार्यापहारिणम्
शरणागतदीनार्तं न हि रक्षेद्यदीश्वरः । पच्यते निरये तावद्यावदिन्दाश्चतुदर्श
अत्र नास्ति विचारो मे पापिष्ठे शरणागते । पापी यं शरणं याति स पापी च न संशयः
देहि तं विप्रशार्दूल पापिनं मातृगामिनम् । बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीसमन्वितम्
शुक्र उवाच सुराणामसुराणां च सर्वेषां जगतामपि । त्वमेव शास्ता भगवान्को वा शास्ति सुरेऽसुरे
कृत्वा सुराणां साहाय्यं कथं दैत्यान्हनिष्यसि । संहर्तुः सर्वजगतां दैत्यौधे किं च पौरुषम्
त्वं जयोतिः परमं ब्रह्म सगुणो निर्गुणः स्वयम् । गुणभेदान्मूर्तिभेदो ब्रह्मविष्णुशिवात्मकः
बलिद्वारे गदापाणिः स्वयमेव भवान्प्रभो । स्वयं प्रदत्ता शक्राय तस्मै श्रीरपि लीलया
क्षमस्व भगञ्छंभो हर क्रोधं च संहर । किं पौरुषं च भवतो ब्रह्मणस्यापि हिंसया
अहं जीवञ्छरीरेण न दास्यामि निशाकरम् । शरणागतदीनार्तं लज्जिर्वं पापसंयुतम्
अहं च त्वत्पदाम्भोजे शरणं यामि शंकर । यथोचितं कुरु विभो जगत्सर्वं तथैव च
शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः । इत्युवाच निशानाथं समानय शुभं भवेत्
एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः । समानीय निशानाथं तारकासहितं व्रज
शंभोश्च चरणाम्भोजे चकार च समर्पणम् । शंभुस्तं प्रीतियुक्तश्च वासयामास वक्षसि
दत्तवा तस्मै पादरेणुं निष्पापं च चकार सः । दत्तवा तन्मस्तके हस्तं कृपालुरभयं ददौ
क्षीरोदे स्नापयित्वा च प्रायश्चित्तेन शंकरः । चकार चन्द्रं निष्पापं ब्रह्मणा सहितः शुचिम्
योगेन चन्द्रं योगीन्द्रो द्विखण्डं तं चकार सः । ररक्षार्धं ललाटे च सोऽप्यर्धं ब्रह्मणः पुरः
अत एव महादेवो बभूव चन्द्रशेखरः । मृगाङ्को लज्जितस्तत्र कलङ्कीं देवसंसदि
लज्जया च स्वयोगेन देहत्यागं चकार सः । तच्छरीरं च क्षीरोदे ब्रह्मणा च समर्पितम्
रुरोदात्रिश्च कृबया शुचा क्षीरोदधेस्तटे । अत्रेश्चक्षुर्जलं तस्य पपात च जले व्रज
तस्माद्बभूव चन्द्रश्च निष्पापो देवसंसदि । ब्रह्मा च भगवाञ्छंभुरभिषेकं चकार तम्
महादेव उवाच स्वस्थानं गच्छ पुत्र त्वं कुरुष्व विषयं मुदा । पश्चात्तस्याश्च शापेनयक्ष्मग्रस्तोभविष्यसि
व्यर्थं पतिव्रताशापं कर्तुमीशश्चको भुवि । मदाशिषा यक्ष्मणश्च प्रतीकारो भविष्यति