सस्मितं परमात्मानं ज्वलन्तं ब्रह्मतेजसा । संत्रस्तः सहसोत्थाय प्रणनाम पदाम्बुजे
ददौ शुभाशिषं तस्मै सुप्रसन्नः परात्परः । रत्नसिंहासने तं च वासयामास सादरम्
अथ तत्रान्तरे विप्रं पुरतस्तं ददर्श सः । शान्तं स्वयं विधातारं रत्नस्यन्दनमुन्दरम्
वह्निशुद्धांशुकाधानं रत्नमालाविभूषितम् । प्रसन्नं सुस्मितं शुद्धं जगतामीश्वरं परम्
कर्मणां फलदातारं तपोरूपं तपश्विनाम् । वेदानां जनकं वेदप्रसूं कान्तं मनोहरम्
पुटाञ्जलिस्तदा त्रस्तः प्रणनाम सुरेश्वरम् । रत्नसिंहासने रम्ये वासयामास भक्तितः
पूजां चकार भक्त्या च तयोश्चरणपङ्कजे । नोचितं कुशलप्रश्नं तयोः कल्याणमेव च
विधाता जगतां नन्द शकाचार्यं पुरस्थितम् । सुनीतिं कथयामास यत्नतः शंमुसंमतः
श्रृणु शुक्र प्रवक्ष्यामि तुर्नीतिं शशिनः सुत । लज्जाकारं त्रिजगतां कर्म वेदबहिष्कृतम्
स्नात्वा गृहोन्मुखीं तारां गुरुपत्नीं पतिव्रताम् । गृहीत्वा शरणापन्नस्त्वयि पापश्च संप्रतम्
प्रस्तुतं देवसैन्यं च पश्य वत्स रणोद्यतम् । अहं शंभुस्त्वत्समीपं तदर्थं च समागतौ
शंभुरुवाच चन्द्रमानय हे विप्र यद्यात्मशिवमिच्छसि । संहरिष्ये सिरस्तस्य त्रिशूरेन च पापिनः
अन्यथा संहरिष्यामि सर्वदैत्यान्क्षणेन च । मयि रुष्टे रक्षिता को दैत्यानां च भवेद्द्विज
सद्यः पाशुपतेनैव वाय्वस्त्रेण च र्सांप्रतम् । सुराणां रिपुवर्गं च हरिष्यामि च लीलया
दुर्वाससो मदंशस्य गुरुस्तस्याङ्गिरा सुनिः । परस्पराच्च संबन्धाद्गुरुपुत्रो गुरुर्मम
बृहस्पतिश्च तेजस्वी तं भस्मीकर्तुमीश्वरः । न चकार कृपालुश्चेत्प्रियशिष्येण हेतुना
उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः । तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती
पत्नीं मद्गुरुपुत्रस्य देहि तार्रां मनोहराम् । मद्वैरिणं च चन्द्रं च भ्रादृभार्यापहारिणम्
शरणागतदीनार्तं न हि रक्षेद्यदीश्वरः । पच्यते निरये तावद्यावदिन्दाश्चतुदर्श
अत्र नास्ति विचारो मे पापिष्ठे शरणागते । पापी यं शरणं याति स पापी च न संशयः
देहि तं विप्रशार्दूल पापिनं मातृगामिनम् । बहिष्कृत्य स्वाश्रमाच्च तारासाध्वीसमन्वितम्
शुक्र उवाच सुराणामसुराणां च सर्वेषां जगतामपि । त्वमेव शास्ता भगवान्को वा शास्ति सुरेऽसुरे
कृत्वा सुराणां साहाय्यं कथं दैत्यान्हनिष्यसि । संहर्तुः सर्वजगतां दैत्यौधे किं च पौरुषम्
त्वं जयोतिः परमं ब्रह्म सगुणो निर्गुणः स्वयम् । गुणभेदान्मूर्तिभेदो ब्रह्मविष्णुशिवात्मकः
बलिद्वारे गदापाणिः स्वयमेव भवान्प्रभो । स्वयं प्रदत्ता शक्राय तस्मै श्रीरपि लीलया
क्षमस्व भगञ्छंभो हर क्रोधं च संहर । किं पौरुषं च भवतो ब्रह्मणस्यापि हिंसया
अहं जीवञ्छरीरेण न दास्यामि निशाकरम् । शरणागतदीनार्तं लज्जिर्वं पापसंयुतम्
अहं च त्वत्पदाम्भोजे शरणं यामि शंकर । यथोचितं कुरु विभो जगत्सर्वं तथैव च
शुक्रस्य वचनं श्रुत्वा प्रसन्नो भगवाञ्छिवः । इत्युवाच निशानाथं समानय शुभं भवेत्
एतस्मिन्नन्तरे ब्रह्मा बोधयित्वा कविं विभुः । समानीय निशानाथं तारकासहितं व्रज