दुंदूभीवाद्यभाण्डानां पञ्चलक्षं तथैव च । पटहानां त्रिलक्षं च डिण्डिमानां द्विलक्षकम्
ऐरावते महेन्द्रं च श्वेताश्वे धर्ममेव च । कुबेरं वरुणं वह्निं रथस्थं पवनं तथा
महिषस्थं यमं चैव स्यन्दनस्थं दिवाकरम् । ईशानं च वृषेन्द्रस्थमनन्तं नागवाहम्
आदित्यांश्च वसून्रुद्रान्सिद्धगन्धर्वाकिन्नरान् । जीवन्मुक्तमुनीनां च समीहं सूर्यवर्चसम्
तान्दृष्ट्वा निर्भयः शुक्रः समाश्वास्य निशाकरम् । सुराणां द्विगुणं सैन्यमाजुहाव व्रजेश्वर
रत्नमालानदीतीरे हुताशनप्रियाश्रमे । तत्र तस्थौ दैत्यसैन्यं पुण्यक्षीरोदधेस्तटे
एतस्मिन्नन्तरे शुक्रः समीपे सरसस्तटे । पुण्याश्रमेऽक्षयवटे सुरसैन्यात्समागतम्
ददर्श वृषभस्थं च शंकरं सर्वंशंकरम् । त्रिशूलपट्टीशधरं व्याघ्रचर्माम्बरं वरम्
तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् । सर्दसंपत्प्रदातारं सर्वज्ञं सर्वकारणम्
सर्वेश्वरं सर्वपूज्यं सर्वहूपं सनातनम् । शरणागतदीनार्तं परित्राणपरायणम्
सस्मितं परमात्मानं ज्वलन्तं ब्रह्मतेजसा । संत्रस्तः सहसोत्थाय प्रणनाम पदाम्बुजे
ददौ शुभाशिषं तस्मै सुप्रसन्नः परात्परः । रत्नसिंहासने तं च वासयामास सादरम्
अथ तत्रान्तरे विप्रं पुरतस्तं ददर्श सः । शान्तं स्वयं विधातारं रत्नस्यन्दनमुन्दरम्
वह्निशुद्धांशुकाधानं रत्नमालाविभूषितम् । प्रसन्नं सुस्मितं शुद्धं जगतामीश्वरं परम्
कर्मणां फलदातारं तपोरूपं तपश्विनाम् । वेदानां जनकं वेदप्रसूं कान्तं मनोहरम्
पुटाञ्जलिस्तदा त्रस्तः प्रणनाम सुरेश्वरम् । रत्नसिंहासने रम्ये वासयामास भक्तितः
पूजां चकार भक्त्या च तयोश्चरणपङ्कजे । नोचितं कुशलप्रश्नं तयोः कल्याणमेव च
विधाता जगतां नन्द शकाचार्यं पुरस्थितम् । सुनीतिं कथयामास यत्नतः शंमुसंमतः
श्रृणु शुक्र प्रवक्ष्यामि तुर्नीतिं शशिनः सुत । लज्जाकारं त्रिजगतां कर्म वेदबहिष्कृतम्
स्नात्वा गृहोन्मुखीं तारां गुरुपत्नीं पतिव्रताम् । गृहीत्वा शरणापन्नस्त्वयि पापश्च संप्रतम्
प्रस्तुतं देवसैन्यं च पश्य वत्स रणोद्यतम् । अहं शंभुस्त्वत्समीपं तदर्थं च समागतौ
शंभुरुवाच चन्द्रमानय हे विप्र यद्यात्मशिवमिच्छसि । संहरिष्ये सिरस्तस्य त्रिशूरेन च पापिनः
अन्यथा संहरिष्यामि सर्वदैत्यान्क्षणेन च । मयि रुष्टे रक्षिता को दैत्यानां च भवेद्द्विज
सद्यः पाशुपतेनैव वाय्वस्त्रेण च र्सांप्रतम् । सुराणां रिपुवर्गं च हरिष्यामि च लीलया
दुर्वाससो मदंशस्य गुरुस्तस्याङ्गिरा सुनिः । परस्पराच्च संबन्धाद्गुरुपुत्रो गुरुर्मम
बृहस्पतिश्च तेजस्वी तं भस्मीकर्तुमीश्वरः । न चकार कृपालुश्चेत्प्रियशिष्येण हेतुना
उतथ्यपत्नीं दृष्ट्वा स पुरा रेमे स्वकामतः । तत्पतेः शापतोऽस्यैव परग्रस्ता प्रिया सती
पत्नीं मद्गुरुपुत्रस्य देहि तार्रां मनोहराम् । मद्वैरिणं च चन्द्रं च भ्रादृभार्यापहारिणम्
शरणागतदीनार्तं न हि रक्षेद्यदीश्वरः । पच्यते निरये तावद्यावदिन्दाश्चतुदर्श
अत्र नास्ति विचारो मे पापिष्ठे शरणागते । पापी यं शरणं याति स पापी च न संशयः