त्रिकूटे वटमूले च तत्र चन्द्रसरोवरे । सुचारुशतपत्राणां पत्रे चन्दनचर्चिते
सुचारुचम्पकोद्याने चम्पकानिलपूजिते । क्षीरोदकाञ्चनीभूमौ क्रौञ्चकाञ्चनपर्वते
रत्नशैले मणिमये मणिमन्दिरसुन्दरे । माणिक्यमुक्तासारेण हीरहारेण शोभिते
सुचारुवस्त्रचित्राढ्ये श्वेतचामारदर्पणैः । भूषिते रत्नदीपैश्च देवक्रीडे प्रियस्थले
वारुणीं मदिरां पीत्वा वरुणानीसमन्वितः । बरुणो रमते यत्र तत्र रेमे तया सह
पावने पवनोद्याने परिजातानिलेन च । सुगन्धिमोहिते रत्नमालातीरे च निर्मले
ऋक्षशैले कल्पवृक्षवने वह्निप्रियाश्रमे । पपौ च कामधेनूनां क्षीरं क्षीरोदधेस्तटे
वह्निशुद्धांशुकयुगं वह्निस्तस्मै ददौ मुदा । वरुणो रत्नमालां च नत्नच्छत्रं समीरणः
तत्र दृष्ट्वाऽसुरगुरं बलिगेहात्समागतम् । प्रणम्य सर्वमुक्त्वा च चन्द्रस्तं शरणं ययौ
शुक्रस्तं बोधयामास वचनं नीतियुक्तितः । निरपेक्षो सुनिश्रेष्ठो वेदवेदाङ्गपारगः
शुक्र उवाच शृणु वत्स प्रवक्ष्यामि गुरवे देहि तारकाम् । शंभोश्च सुरुपुत्राय पौत्राय ब्रह्मणश्च वै
पूजिताय सुरार्णा च देया तस्मै निशापते । प्रियाय तत्प्रिर्यां दत्तवा शीघ्रं त्वं शरणं व्रज
गुरुपत्नीं मातृतुल्यां त्यज सद्वचनाद्विधो । कुरु पापक्षयं पापनिवृत्तिस्तु महाफला
सतीनां गुरुपत्नीर्नां ग्रहणे च बलेन च । ब्रह्महत्यासहस्रार्णां पातकं लभते जनः
कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् । साम्यं नारायणस्थाने तृणपर्वतयोः सुर
कस्त्वं वत्स हरेः स्थाने कर्मभोगोऽस्ति ब्रह्मणः । नारायणाश्रीताः सर्वे जीविनस्त्रिविधा भवे
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo ताराहरणेऽशीतितमोऽध्यायः
अथैकाशीतितमोऽध्यायः श्रीकृष्ण उवाय एतस्मिन्नन्तरे शुक्रः सुरश्रेणीं ददर्श सः । आकाशमार्गादायान्तीं रणशस्त्रास्त्रधारिणीम्
पताकानां त्रिकोटिश्च शतकोटिर्महारथाः । शतकोटिर्गजेन्द्राणां रथानां तच्चतुर्गुणम्
अश्वानां तत्छतगुणं समूहं च सुदारुणम् । पदातीनां समूहं च तुरङ्गेभ्यश्च षड्गुणम्
दुंदूभीवाद्यभाण्डानां पञ्चलक्षं तथैव च । पटहानां त्रिलक्षं च डिण्डिमानां द्विलक्षकम्
ऐरावते महेन्द्रं च श्वेताश्वे धर्ममेव च । कुबेरं वरुणं वह्निं रथस्थं पवनं तथा
महिषस्थं यमं चैव स्यन्दनस्थं दिवाकरम् । ईशानं च वृषेन्द्रस्थमनन्तं नागवाहम्
आदित्यांश्च वसून्रुद्रान्सिद्धगन्धर्वाकिन्नरान् । जीवन्मुक्तमुनीनां च समीहं सूर्यवर्चसम्
तान्दृष्ट्वा निर्भयः शुक्रः समाश्वास्य निशाकरम् । सुराणां द्विगुणं सैन्यमाजुहाव व्रजेश्वर
रत्नमालानदीतीरे हुताशनप्रियाश्रमे । तत्र तस्थौ दैत्यसैन्यं पुण्यक्षीरोदधेस्तटे
एतस्मिन्नन्तरे शुक्रः समीपे सरसस्तटे । पुण्याश्रमेऽक्षयवटे सुरसैन्यात्समागतम्
ददर्श वृषभस्थं च शंकरं सर्वंशंकरम् । त्रिशूलपट्टीशधरं व्याघ्रचर्माम्बरं वरम्
तेजःस्वरूपं परमं भक्तानुग्रहविग्रहम् । सर्दसंपत्प्रदातारं सर्वज्ञं सर्वकारणम्
सर्वेश्वरं सर्वपूज्यं सर्वहूपं सनातनम् । शरणागतदीनार्तं परित्राणपरायणम्