पुरा ते प्राक्तनं सर्व कदाचिन्न हि खण्डितम् । नारायणाश्च स्वांशोन तव पुत्रो भविष्यति
त्रिः सप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति । मृत्युस्ते यशसो बीजं भदिष्यति महीतले
इत्येवमुक्त्ता ब्रह्मा च ययौ गेहं व्रजेश्वर । प्रययौ जमदग्निश्च भास्करश्च स्वमन्दिरम्
इत्येवं कथितं तात आख्यानं पुण्यकारकम् । राहुग्रस्तो भास्करश्चाप्यदृश्यो येन हेतुना
चतुर्थ्यामुदितश्चन्द्रो भाद्रे मासि सितासिते । अदृश्यो नष्टरूपश्च श्रूयतां येन हेतुरा
राहुग्रस्तः कलङ्की वा पुराशप्तो मया पितः । सर्व त्वां कथयिष्यामि कथामेतां पुरातनीम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
अथाशोतितमोऽध्यायः श्रीकृष्ण उवाच पुरा तारा गुरोः पत्नी नवयौवनसंयुता । रत्नभूषणभूषाढ्या वरसूक्ष्माम्बरा सती
सुश्रोणी सस्मिता रम्य सुन्दरी सुमनोहरा । अतीव कबरीरम्या मालतीमाल्यभूषिता
मिन्दूरबिन्दुना साकं चारुचंदनबिन्दुभि। । कस्तूरीबिन्दुनाऽधश्च भालमध्यस्थलोज्ज्वला
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता । सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला
सुचारुसारमुक्ताभदन्तपङ्क्तिमनोहरा । रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला
कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी । सुकोमला चन्द्रमुखी कामाधारा च कामुकी
स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा । ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी
दृष्ट्वा तस्याश्च सर्वाङ्गमनङ्गबाणपीडितः । भाद्रे चतुर्थ्यां चन्द्रश्च जहार चेतनां व्रज
ज्ञानं क्षणेन संप्राप्य रथस्थो रमिको बली । रथमारोहयामास करे धृत्वा च तारकम्
कामोन्मत्तः कामिनीं तां समाश्लिष्य चुचुम्ब च । शृङ्गारं कर्तुमुद्युक्तं तमुवाच गुरुप्रिया
तारकोवाच त्यज मां त्यज मां चन्द्र सुरेषु कुलपांसन । गुरुपत्नीं ब्राह्मणीं च पातिव्रत्यपरायणाम्
गुरुपत्नीसंगमने ब्रह्महत्याशतं भवेत् । गुरुपत्नी विप्रपत्नी यदि सा च पतिव्रता
ब्रह्महत्यासहस्रं च तस्याः संगमने लभेत् । पुत्रस्त्वं तव माताऽहं धैर्य कुरु सुरेश्वार
धिक्त्वां श्रुत्वा सुरगुरुर्भस्मीभूतं करिष्यति । पुत्राधिकश्च शिष्यश्च प्रियो मत्स्वामिनो भवान्
स्वधर्म रक्ष पापिष्ठ मामेवं मातरं त्यज । दास्यामि स्त्रीवधं तुम्यं यदिमां संग्रहीष्यसि
विलङ्ध्य तारावचनं तां च संभोक्तुमुद्यतम् । शशाप तारा कोपेन निष्कामा सा पतिव्रता
राहुग्रस्तो घनग्रस्तः पापदृश्यो भवान्भव । कलङ्की यक्ष्मणा ग्रस्तो भविष्यसि न संशयः
चन्द्रं शप्त्वा तदा तूर्ण कामदेवं शशाप सा । तेजस्विना केनचित्त्वं भस्मीभूतो भविष्यसि
चन्द्रस्तारां गृहीत्वा च कृत्वाऽपि रमणं व्रज । क्रोडेनिधाय प्रययौ रुदतीं ता शुचाऽन्विताम्
निर्जने निर्जने रम्ये शैले शैले मनोहरे । सरोनदनदीनां च तीरे तीरे मनोहरे
मधुव्रतपिकोक्ते च पुष्पोद्याने सुपुष्पिते । रम्यायां पुष्पशथ्यायां स रेमे रामया सह
चदनोक्षितसर्वाङ्गो मधुपानरतः सुरः । सुखसंभोगसंसक्तो बुबुधे न दिवानिशम्
मलये मलयारण्ये मलयानिलसंयुते । स्यन्दने चन्दनवने पश्चिमोदधिसंनिधौ