न्यूनातिरक्ते वर्षे च राहुग्रस्तो भविष्यसि । तत्रादृश्यश्च केषांचित्पुण्यदृश्यो हि कस्यचित्
अन्यथा सर्वकालेन पुण्यदृश्यो भवान्भुवि । त्वां दृष्ट्वा च नमस्कृत्य सर्वे निष्पापिनो जनाः
जन्मसप्ताष्टरिः फाङ्कचतुर्थे दशमे तथा । जन्मर्क्षे निधनै नणामदृश्यस्त्वं भविष्यसि
अस्तकाले घनाच्छन्ने मध्याहनस्थे जलेऽपि वा । अर्धोदिते च काने च पापदृश्यो भविष्यसि
भार्यादुःखनिमित्तेन भार्यया हेतुभूतया । श्वशुरेण शालकेन हततेजा भविष्यसि
अन्यथा तव तेजश्च संज्ञा सहितुमक्षमा । मालीसुमालियुद्धे च शंभुना त्वं पराचितः
इत्येवमुक्त्वा सूर्य च बोधयामास ब्राह्मणम् । नम्रं शापपराभूतं लज्जितं कोपितं व्रज
हे विप्र श्वगृहं गच्छ गच्छ वत्स यथासुखम् । त्वत्तेजसा क्षणेनैव भस्मीभूतं भवेज्जगत्
सूर्यस्त्वत्परिपाल्यश्च भवान्सूर्यस्य नित्यशः । परस्परं च पूज्यश्च संबन्धः पोष्यपोष्कः
हर्यशेन क्षत्रियेण कार्तवीर्यार्जुनेन च । भविष्यसि न संदेहः पराभूतो द्विजो मृतः
पुरा ते प्राक्तनं सर्व कदाचिन्न हि खण्डितम् । नारायणाश्च स्वांशोन तव पुत्रो भविष्यति
त्रिः सप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति । मृत्युस्ते यशसो बीजं भदिष्यति महीतले
इत्येवमुक्त्ता ब्रह्मा च ययौ गेहं व्रजेश्वर । प्रययौ जमदग्निश्च भास्करश्च स्वमन्दिरम्
इत्येवं कथितं तात आख्यानं पुण्यकारकम् । राहुग्रस्तो भास्करश्चाप्यदृश्यो येन हेतुना
चतुर्थ्यामुदितश्चन्द्रो भाद्रे मासि सितासिते । अदृश्यो नष्टरूपश्च श्रूयतां येन हेतुरा
राहुग्रस्तः कलङ्की वा पुराशप्तो मया पितः । सर्व त्वां कथयिष्यामि कथामेतां पुरातनीम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
अथाशोतितमोऽध्यायः श्रीकृष्ण उवाच पुरा तारा गुरोः पत्नी नवयौवनसंयुता । रत्नभूषणभूषाढ्या वरसूक्ष्माम्बरा सती
सुश्रोणी सस्मिता रम्य सुन्दरी सुमनोहरा । अतीव कबरीरम्या मालतीमाल्यभूषिता
मिन्दूरबिन्दुना साकं चारुचंदनबिन्दुभि। । कस्तूरीबिन्दुनाऽधश्च भालमध्यस्थलोज्ज्वला
रत्नेन्द्रसारनिर्माणक्वणन्मञ्जीररञ्जिता । सुवक्रलोचना श्यामा सुचारुकज्जलोज्ज्वला
सुचारुसारमुक्ताभदन्तपङ्क्तिमनोहरा । रत्नकुण्डलयुग्मेन चारुगण्डस्थलोज्ज्वला
कामिनीष्वतुला बाला गजेन्द्रमन्दगामिनी । सुकोमला चन्द्रमुखी कामाधारा च कामुकी
स्वर्गमन्दाकिनीतीरे स्नाता स्निग्धाम्बरा वरा । ध्यायन्ती गुरुपादं सा स्वगृहं गमनोन्मुखी
दृष्ट्वा तस्याश्च सर्वाङ्गमनङ्गबाणपीडितः । भाद्रे चतुर्थ्यां चन्द्रश्च जहार चेतनां व्रज
ज्ञानं क्षणेन संप्राप्य रथस्थो रमिको बली । रथमारोहयामास करे धृत्वा च तारकम्
कामोन्मत्तः कामिनीं तां समाश्लिष्य चुचुम्ब च । शृङ्गारं कर्तुमुद्युक्तं तमुवाच गुरुप्रिया
तारकोवाच त्यज मां त्यज मां चन्द्र सुरेषु कुलपांसन । गुरुपत्नीं ब्राह्मणीं च पातिव्रत्यपरायणाम्
गुरुपत्नीसंगमने ब्रह्महत्याशतं भवेत् । गुरुपत्नी विप्रपत्नी यदि सा च पतिव्रता
ब्रह्महत्यासहस्रं च तस्याः संगमने लभेत् । पुत्रस्त्वं तव माताऽहं धैर्य कुरु सुरेश्वार