अस्माभिः पूजिता विप्रा युषमाभिः पूजिताः सुराः । परस्परं स्नेहपात्रं चेदमाचरणं द्विज
अहमेवं त्वया शप्तो मया शप्तो भवान्भव । अन्यथा मां वदन्त्येवं सूर्य निस्तेजसं जनाः
पराभूतः क्षत्रियेण भविष्यसि द्विजेश्वर । मरणं क्षत्रियास्त्रेण भवतश्च भविष्यति
सूर्यस्य वचनं श्रुत्वा चुकोप ब्राह्मणः पुनः । तं शशापातिरक्तास्यः शंभुना निर्जितो भवान्
उभयोः कलहं ज्ञात्वा कश्यपेन सह व्रज । आजगाम स्वयं ब्रह्मा विधाता जगतामपि
आगत्य ब्रह्मा संत्रस्तं बोधयामास भास्करम् । मुनिश्रेष्ठं च धर्मज्ञं धर्मज्ञानां गुरोर्गुरुः
ब्रह्मोवाच क्षमस्व भास्कर त्वं च साक्षान्नारायणो भवान् । युष्माकं परिपाल्यश्चाप्यवध्यो ब्राह्मणाः सदा
अहं करोमि भवतो विप्रशापान्तमुल्बणम् । अत्राहमागतस्त्रस्तो भृगुणा प्रेरितस्ततः
स्फुटोऽहं प्रेरितश्चापि कश्यपेन मरीचिना । शान्तो भव सुरक्षेष्ठ साक्षीत्वं सर्वकर्मणाम्
कुत्रचिद्दिवसे ब्रह्मंस्त्वं तत्र कुत्रचित्क्षणम् । भविष्यसि घनाच्छन्नः सद्यो मुक्तो भविष्यसि
न्यूनातिरक्ते वर्षे च राहुग्रस्तो भविष्यसि । तत्रादृश्यश्च केषांचित्पुण्यदृश्यो हि कस्यचित्
अन्यथा सर्वकालेन पुण्यदृश्यो भवान्भुवि । त्वां दृष्ट्वा च नमस्कृत्य सर्वे निष्पापिनो जनाः
जन्मसप्ताष्टरिः फाङ्कचतुर्थे दशमे तथा । जन्मर्क्षे निधनै नणामदृश्यस्त्वं भविष्यसि
अस्तकाले घनाच्छन्ने मध्याहनस्थे जलेऽपि वा । अर्धोदिते च काने च पापदृश्यो भविष्यसि
भार्यादुःखनिमित्तेन भार्यया हेतुभूतया । श्वशुरेण शालकेन हततेजा भविष्यसि
अन्यथा तव तेजश्च संज्ञा सहितुमक्षमा । मालीसुमालियुद्धे च शंभुना त्वं पराचितः
इत्येवमुक्त्वा सूर्य च बोधयामास ब्राह्मणम् । नम्रं शापपराभूतं लज्जितं कोपितं व्रज
हे विप्र श्वगृहं गच्छ गच्छ वत्स यथासुखम् । त्वत्तेजसा क्षणेनैव भस्मीभूतं भवेज्जगत्
सूर्यस्त्वत्परिपाल्यश्च भवान्सूर्यस्य नित्यशः । परस्परं च पूज्यश्च संबन्धः पोष्यपोष्कः
हर्यशेन क्षत्रियेण कार्तवीर्यार्जुनेन च । भविष्यसि न संदेहः पराभूतो द्विजो मृतः
पुरा ते प्राक्तनं सर्व कदाचिन्न हि खण्डितम् । नारायणाश्च स्वांशोन तव पुत्रो भविष्यति
त्रिः सप्तकृत्वो जगतीं निःक्षत्रां च करिष्यति । मृत्युस्ते यशसो बीजं भदिष्यति महीतले
इत्येवमुक्त्ता ब्रह्मा च ययौ गेहं व्रजेश्वर । प्रययौ जमदग्निश्च भास्करश्च स्वमन्दिरम्
इत्येवं कथितं तात आख्यानं पुण्यकारकम् । राहुग्रस्तो भास्करश्चाप्यदृश्यो येन हेतुना
चतुर्थ्यामुदितश्चन्द्रो भाद्रे मासि सितासिते । अदृश्यो नष्टरूपश्च श्रूयतां येन हेतुरा
राहुग्रस्तः कलङ्की वा पुराशप्तो मया पितः । सर्व त्वां कथयिष्यामि कथामेतां पुरातनीम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo भगवन्नन्दसंo
अथाशोतितमोऽध्यायः श्रीकृष्ण उवाच पुरा तारा गुरोः पत्नी नवयौवनसंयुता । रत्नभूषणभूषाढ्या वरसूक्ष्माम्बरा सती
सुश्रोणी सस्मिता रम्य सुन्दरी सुमनोहरा । अतीव कबरीरम्या मालतीमाल्यभूषिता
मिन्दूरबिन्दुना साकं चारुचंदनबिन्दुभि। । कस्तूरीबिन्दुनाऽधश्च भालमध्यस्थलोज्ज्वला