पूजाधारश्च कथितः श्रूयतां पूजनक्रमः
कश्चिद्ददाति हरये चोपचारांश्च षोडश
कश्चिद्द्वादश वस्तूनि पञ्च वस्तूनि कश्चन
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् 1.26.
गन्धं माल्यं च शय्यां च ललितां सुविलक्षणाम्
गन्धान्नतल्पताम्बूलं विना द्रव्याणि द्वादश
सर्वाण्येतानि मूलेन दद्यात्साधकसत्तमः
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम्
वर्णन्यासं विनिर्वर्त्य चार्घ्यपात्रं विनिर्दिशेत्
जलेनापूर्य्य शङ्खं च तत्र संस्थापयेद्द्विजः
पूजोपकरणं तेन जलेन क्षालयेत्पुनः
ध्यानेन गुरुदत्तेन ध्यायेत्कृष्णमनन्यधीः
अङ्ग प्रत्यङ्गदेवं च तन्त्रोक्तं पूजयेद्धरिम्
दत्त्वोपहारं विविधं स्तुत्वा च कवचं पठेत् 1.26.
कृत्वा वै देवपूजां च यज्ञं कुर्य्याद्विचक्षणः
नित्यश्राद्धं यथाशक्ति दानं वित्तानुरूपकम्
इति ते कथितं सर्वं वेदोक्तं सूत्रमुत्तमम्
नारद उवाच यतीनां वैष्णवानां च विधवाब्रह्मचारिणाम्
किं कर्त्तव्यमकर्त्तव्यमभोग्यं भोग्यमेव वा
महेश्वर उवाच कश्चित्समीरणाहारी फलाहारी च कश्चन
अन्नाहारी यथा काले गृही च गृहिणीयुतः
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा
अन्नं विष्ठा जलं मूत्रं यद्विष्णोरनिवेदितम्
ब्राह्मणः कामतोऽन्नं च यो भुङ्क्ते हरिवासरे
न भोक्तव्यं न भोक्तव्यं न भोक्तव्यं च नारद
गृही शैवश्च शाक्तश्च ब्राह्मणो ज्ञानदुर्बलः
कृमिभिः शालिमानैश्च भक्षितस्तत्र तिष्ठति 1.27.
जन्माष्टमीदिने रामनवमीदिवसे हरेः
उपवासासमर्थश्च फलं मूलं जलं पिबेत्
सकृद्भुङ्क्ते हविष्यान्नं विष्णोर्नैवेद्यमेव च