एकदा जमदग्निश्च महाकौतूहलान्वितः । रेणुकासहितस्तुष्टो जगाम नर्मदातटम्
निर्जने नर्मदातीरे विजहार तया सह । नवोढया च सुन्दर्या नवयौवनयुक्तया
सुवेषया सुस्मितया रत्नभूषणयुक्तया । नतया स्तनभारेण श्रोणीभारेण मन्दया
सुन्दरीणामतुलया श्वेतचम्पकवर्णया । सुपूर्णचन्द्राननया कटाक्षयुतया तथा
अतीवसूक्ष्माम्बरया कामबाणार्तया व्रज । पुलकाञ्चितसर्वाङ्गसंभोगेनापि मूर्च्छया
पुंस्कोकिलयुते रम्ये शब्दिते सुमधुव्रते । सुगन्धिवायुसंयुक्ते पुष्पतल्पान्विते शुभे
चन्दनोक्षितसर्वाङ्गं वस्त्रमाल्यधरं मुनिम् । महारासरसाढ्यं तमुवाच भास्करः स्वयम्
वेदकर्तुः प्रपौत्रस्तवं ब्रह्मणश्च जगत्वतेः । चतुर्वेदविधेयेषु सुनिष्णातः सदा शुचिः
वेदाङ्गकर्ता धर्मज्ञः श्रेष्ठो वेदविदां वरः । महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती
युष्मद्विधोक्तं शास्त्रं च पठित्वाऽन्यश्च पण्डितः । वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः
धर्म त्यजति धर्मज्ञो ह्यधर्मेण रतः कथम् । दिवामैथुनदोषं च वक्ति वेदो विशेषतः
अहं च धर्मिणां साक्षी तेन त्वां कथयामि ते । सूर्यस्य वचनं श्रुत्वा तत्याज मैथुनं द्विजः
दृष्ट्वा पुरो विप्ररूपं सूर्य तेजस्विनं सुरम् । उवाच सूर्य रक्तास्यः कोपलज्जासमन्वितः
जमदग्निरुवाच को भवान्पण़्डितंमन्यो न त्वदन्योऽस्ति पण्डितः । अहं भृगोर्भगवतः शिष्यस्त्वं कश्यपस्य च
चतुर्वेदांश्च जानामि धर्माधर्मनिरूपणो । वेदप्रणिहितो धर्मे ह्यधर्मस्तद्विपर्ययः
अज्ञानी पुरुषः शश्वज्जडितश्च स्वकर्मणा । तेजीयसां न दोषाय वङ्नेः सर्वभुजो यथा
अन्ये भवांश्च धर्मश्च साक्षी सर्वे च कर्मणाम् । फलदाता च शास्त्रज्ञो यतस्त्वत्तनयः सदा
न वैष्णवानां शास्तारो यूयमस्माकमेव च । न वासुदेवभक्तानामशुभं विद्यते क्वचित्
हरेः सुदर्शनं चक्रं शश्वद्रक्षति वैष्णवान् । नारायणश्च भगवान्स्वयं ब्रह्मा च शंकरः
शास्ता यमश्च नास्माकं त्वं वै नापि दिवाकर। राजपुत्रो यथा स्थाने वयं स्वच्छन्दगामिनः
शक्तोऽहं भस्मसात्कर्तुं यमं सर्वसुरांस्तथा । महेन्द्रप्रभृतीन्सूर्य क्षणेनैवावलीलया
कस्त्वं धर्मप्रवक्ता मे याहि स्वस्थानमेव च । मम शास्ता तु भगवाञ्छ्रीकृष्णः प्रकृतेः परः
अद्य मे निर्जने स्थाने रसभङ्गस्त्वया कृतः । मम शापात्पाप दृश्यो राहुग्रस्तो भविष्यसि
द्रष्टुं त्वां ये घनाः सर्वे दूरीभूता भवन्ति ते । त्वामाच्छन्नं करिष्यन्ति वायुना प्रेरितास्तथा
स्वतेजसा भवान्गर्वाद्धततेजा भविष्यसि । मेघाच्छन्नः स्वल्पतेजा राहुग्रस्तो भवान्भव
ब्राह्मणस्य वचः श्रुत्वा भगवान्भास्करः स्वयम् । ततः पुटाञ्जलिर्भूत्वा तुष्टाव मुनिपुंगवम्
भास्कर उवाच अवध्याः सर्वे धर्मज्ञ धन्या मान्याः पुरस्कृताः । नारायणश्च भगवाञ्छंभुर्ब्रह्मा स्वयं प्रभुः
गणेशाश्चापि शेषश्च धर्मश्चापि सनातनः । स्तुवान्ति ब्रह्मणं सर्वे विप्ररूपी जनार्दनः
विप्रदत्तश्च यो ब्रह्मन्वयमस्मन्मुखो द्विजः । हुताशनश्च द्विमुखाः सुराः सर्वे द्विजो वरः
क्षमस्व वैष्णवः शुद्धः स्वधर्म स समाचर । वैष्णवानां कृतः कोपो हृदि येषां जनार्दनः