अगम्यामामिनं दुष्टं चतुर्वणं नराधमम् । माता सपत्नीमाता च श्वश्रूश्च भगिनी सुता
गुरुपत्नी पुत्रपत्नी सोदरस्य प्रिया सती । मातृष्वसा पितृष्वसा भामिनेयप्रिया तथा
मातुलानी नवोढा य पितृव्यस्त्री रजस्वला । पितृमातृप्रसूश्चैव चागम्याष्टादश स्मृताः
कीर्तिताः सामवेदे च परिपाल्याः सतां व्रज । एता दृष्ट्वा च स्पृष्ट्वा च ब्रह्महत्यां लभेन्नरः
तस्माद्दैवेन ता दृष्ट्वा सूर्यं दृष्ट्वा हरिं स्मरेत् । कामतो यदि पश्यन्ति विनिन्द्यास्ते भवन्ति वै
तस्मात्सन्तो न पश्यन्ति शापभीता व्रजेश्वर । राहुग्रस्तं रविं सोभं न पश्यन्ति विपश्चितः
जन्माष्टसप्तरिः फाङ्कदशमस्थे दिवाकरे । जन्मर्क्षे निधने चापि चतुर्थेऽपि कलानिधौ
सर्वैरंशैर्न पश्यन्ति कम्पितं चन्द्रभास्करम् । नेष्टचन्द्रो न दृश्यश्य भाद्रे मासि सितासिते
चतुर्थ्यामुदितश्चन्द्रः परित्यक्तो मनीषिमिः । चन्द्रस्तारापहरणं कलङ्गमतिदुष्करम्
तस्मै ददाति हे नन्द कामतो दि पश्यति । अकामतो नरो दृष्ट्वा मन्त्रपूतं जलं पिबेत्
तदा शुद्धो भवेत्सद्यो निष्कलङ्की महीतले । सिंहः प्रसेनमवधीत्सिंहो जाम्बवता हतः
सुकुमारक मा रोदीस्तव ह्येष स्यमन्तकः । इति मन्त्रेण पूतं च जलं साधुः पिबेद्ध्रुवम्
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखण्डo उत्तo नारदनाo भगवन्नन्दसंo अष्टसप्ततितमोऽध्यायः
अथैकोनाशीतितमोऽध्यायः नन्द उवाच राहुग्रस्तः कथं सूर्यश्चन्द्रो वाऽपि जगत्प्रभो । नेष्टश्चन्द्रः कथं भाद्रे चतुर्थ्यां चासिते सिते
वेदानां जनकस्त्वं च कं पृच्छामित्वया विना । वेदे पुराणे गोप्यं यन्न जानन्ति विपश्यितः
श्रीभगवानुवाच अतथ्यं वचनं चेदं निषिद्धं वैदिकैरपि । क्षमस्व नन्द भद्रं ते प्रश्नमन्यं कुरुष्व माम्
बिश्वस्तं वचनं तात न प्रकाश्यं मनीषिभिः । विघ्नः प्रकाशे भवति सतां छिद्रं च दैवतः
नन्द उवाच कथयस्व जगन्नाथ न भक्ते व़ञ्चनं कुरु । अदृश्यौ चापि देवेशौ राहुग्रस्तौ च पुष्यदौ
श्रीभगवानुवाच शृणु नन्द प्रवक्षयामि कथामेतां पुरातनीम् । यां श्रुत्वा निष्कलङ्कश्च तीर्थस्नायी भवेन्नरः
सर्वपातकिनं दृष्ट्वा यत्पापं लभते नरः । आख्यानश्रवणोनैव भस्मीभूतं भविष्यति
एकदा जमदग्निश्च महाकौतूहलान्वितः । रेणुकासहितस्तुष्टो जगाम नर्मदातटम्
निर्जने नर्मदातीरे विजहार तया सह । नवोढया च सुन्दर्या नवयौवनयुक्तया
सुवेषया सुस्मितया रत्नभूषणयुक्तया । नतया स्तनभारेण श्रोणीभारेण मन्दया
सुन्दरीणामतुलया श्वेतचम्पकवर्णया । सुपूर्णचन्द्राननया कटाक्षयुतया तथा
अतीवसूक्ष्माम्बरया कामबाणार्तया व्रज । पुलकाञ्चितसर्वाङ्गसंभोगेनापि मूर्च्छया
पुंस्कोकिलयुते रम्ये शब्दिते सुमधुव्रते । सुगन्धिवायुसंयुक्ते पुष्पतल्पान्विते शुभे
चन्दनोक्षितसर्वाङ्गं वस्त्रमाल्यधरं मुनिम् । महारासरसाढ्यं तमुवाच भास्करः स्वयम्
वेदकर्तुः प्रपौत्रस्तवं ब्रह्मणश्च जगत्वतेः । चतुर्वेदविधेयेषु सुनिष्णातः सदा शुचिः
वेदाङ्गकर्ता धर्मज्ञः श्रेष्ठो वेदविदां वरः । महातपस्वी तेजस्वी ब्रह्मचारी च सुव्रती
युष्मद्विधोक्तं शास्त्रं च पठित्वाऽन्यश्च पण्डितः । वेदप्रणिहितो धर्मो ह्यधर्मस्तद्विपर्ययः