अहमात्मा च सर्वेशः सर्वज्ञानात्मकः स्मृतः । मनो ब्रह्मा च प्रकृतिर्बुद्धिरुपा सनातनी
प्राणा विष्णुश्चेतना सा पद्मा तु चाधिदेवता । मयि स्थिते स्थिताः सर्वे गतास्तेऽपिगते मयि
अस्माभिश्च विना देहः सद्यः पतति निश्चितम् । पाञ्चभूतो विलीनश्च पञ्चभूतेषु तत्क्षणम्
नामसंकेतरूपं च निष्फलं मोहकारणम् । शोकश्चाज्ञानिनां तात ज्ञानितां नास्ति किंचन
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृते कलाः । लोभादयो ह्यधर्माशास्तथाऽहंकारपञ्चमः
ते ब्रह्मविष्णुरुद्राशा गुणाः सत्त्वादयस्त्रयः । ज्ञानात्मकः शिवो ज्योतिरहमात्मा च निर्गुणः
यदा विशामि प्रकृतौ तदाऽहं सगुणः स्मृतः । सगुणा विषया विष्णुप्रह्मरुद्रादयस्तथा
धर्मो मदंशो विषयी शोषः सूर्यः कलानिधिः । एवं सर्वे सत्कलांशा मुनिमन्वादयःसुराः
सर्वदेहे प्रविष्टोऽहं न लिप्तः सर्वकर्मसु । जीवन्मुक्तश्च मद्भक्तो जन्ममृत्युजराहरः
सर्वसिद्धेश्वरः श्रीमान्कीर्तिमान्पण़्डितः कविः । चतुर्स्त्रिशद्विधः सिद्धः सर्वकर्मोपहारकः
तमुपैमि स्वयं सिद्धं भक्तस्त्वन्यन्न वाञ्छति । द्वाविंशतिविधं सिद्धं सिद्धिसाधनकारणम्
मन्मुखाच्छूयतां नन्द सिद्धमन्त्रं गृहाण च । अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा
ईशित्वं च वशित्वं च तथा कामावसायिता । दूरश्रवणमेवेति परकायप्रवेशनम्
मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् । वह्निस्तम्भं जलस्तम्भं चिरंजीवित्वमेव च
वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च । कायव्यूहं च वाक्सिद्धिं मृतानयनमौप्सितम्
सृष्टीनां करणं चैव प्राणाकर्षणमेव च । ॐ सर्वेश्वरेश्वराय सर्वदिघ्नविनाशिने मधुसूदनाय स्वाहेति
अयं सन्त्रो महागूढः सर्वेषां कल्पपादपः । सामवेदे च कथितः मिद्धानां सर्वमिद्धिदः
अनेन योगिनः सिद्धा मुनीन्द्राश्च सुरास्तथा । शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत्सताम्
यदि नारायणक्षेत्रे हविष्यान्नरतो जपेत् । गत्वा कुरु जपं तातकाशिकां मणिकर्णिकाम्
श्रृशु नारायणक्षेत्रै जलाधस्तच्चतुष्टयम् । अत्र नारायणः स्वामी नान्यः स्वामी कदाचन
ज्ञानं चात्र मृते लोके मूर्तिर्भवति तस्य वै । व्रतं विनाऽपि मन्त्रेण जीवन्मुक्तो न संशयः
व्रजं कुरु पवित्रं च व्रजनाथ व्रजं व्रज । पापं यद्दर्शने तात कथयामि निशामय
दुःस्वप्नं पापबौजं च केवलं विघ्नकारणम् । गोघ्नं च ब्राह्मणघ्नं वा कृतघ्नं कृटिलं तथा
देवघ्नं पितृमातृघ्नं पापं विश्ववासघातिनम् । मिथ्यासाक्षिप्रदातारं यं चाऽऽतिथ्यविवञ्चनम्
ग्रामयाजिनमेवेति देवविप्रस्वहारिणम् । अश्वत्थघातिनं दुष्टं शिवविष्णुविनिन्दकम्
अदीक्षितमनाचारं संध्याहीनं द्विजं तथा । देवलं वृषवाहं च शूद्राणां सूपकारकम्
शवदाहं च शूद्राणां शूद्रश्राद्धान्नभोजिनम् । अवीरां छिन्ननासां च देवब्राह्मणनिन्दकाम्
पदिभक्तिविङीनां च विष्णुभक्तिविहीनकाम् । शूद्राणां विधवां चैव चाण्डालीं व्यभिचारिणीम्
शश्वत्कोपयुतं दुष्टमृणग्रस्तं च जारजम् । चौरं मिथ्यावादिनं च शरणागतयायिनम्
मांसापहारिणं चैव ब्रह्मणं वृषलीपतिम् । ब्राह्मणीगामिरं शूद्र द्विजं वाधुर्षिकं तथा