संत्रस्तो भगवान्कृष्णो बोधयामास यत्नतः । परमाध्यात्मिकं ज्ञानं ददौ तस्मै जगत्पतिः
श्रीभगवानुवाच हे नन्द जनकश्रेष्ठ सर्वश्रेष्ठ व्रजेश्वर । चेतनं कुरु कल्याम ज्ञानं च परमं श्रृणु
परमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुल्रभम् । वेदशास्त्रे गोपनीयं तुभ्यमेव ददाम्यहम्
निबोध श्रूयतां नन्द सानन्दः सुसमाहितः । जन्ममृत्युचराव्याधिर्यदभ्यासान्न जायते
स्थिरो भव महाराज व्रजनाथ व्रजं व्रज । ज्ञानं लब्ध्वा सदानन्दः शोकमोहविवर्जितः
जलबुद्बुदवत्सर्वं संसारं सचराचरम् । प्रभाते स्वप्नवन्मिथ्या मोहकारणमेव च
मिथ्याकृत्रिमनिर्माणहेतुश्च पाञ्चभौतिकः । मायया सत्यबुद्ध्या च प्रतीतिं जायते नरः
कामक्रोधरोभमोहैर्वेष्टितः सर्वकर्मसु । मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः
निद्रातन्द्राक्षुत्पिपासाक्षमाश्रद्धादयादिभिः । लज्जा शान्तिर्धृतिः पुष्टिस्तुष्टिश्चाऽऽभिश्च वेष्टितः
मनोबुद्धिचेतनाभिः प्राणज्ञानात्मभिः सह । संसक्तः सर्वदेवैश्च यथा वृक्षश्च वायसैः
अहमात्मा च सर्वेशः सर्वज्ञानात्मकः स्मृतः । मनो ब्रह्मा च प्रकृतिर्बुद्धिरुपा सनातनी
प्राणा विष्णुश्चेतना सा पद्मा तु चाधिदेवता । मयि स्थिते स्थिताः सर्वे गतास्तेऽपिगते मयि
अस्माभिश्च विना देहः सद्यः पतति निश्चितम् । पाञ्चभूतो विलीनश्च पञ्चभूतेषु तत्क्षणम्
नामसंकेतरूपं च निष्फलं मोहकारणम् । शोकश्चाज्ञानिनां तात ज्ञानितां नास्ति किंचन
निद्रादयः शक्तयश्च ताः सर्वाः प्रकृते कलाः । लोभादयो ह्यधर्माशास्तथाऽहंकारपञ्चमः
ते ब्रह्मविष्णुरुद्राशा गुणाः सत्त्वादयस्त्रयः । ज्ञानात्मकः शिवो ज्योतिरहमात्मा च निर्गुणः
यदा विशामि प्रकृतौ तदाऽहं सगुणः स्मृतः । सगुणा विषया विष्णुप्रह्मरुद्रादयस्तथा
धर्मो मदंशो विषयी शोषः सूर्यः कलानिधिः । एवं सर्वे सत्कलांशा मुनिमन्वादयःसुराः
सर्वदेहे प्रविष्टोऽहं न लिप्तः सर्वकर्मसु । जीवन्मुक्तश्च मद्भक्तो जन्ममृत्युजराहरः
सर्वसिद्धेश्वरः श्रीमान्कीर्तिमान्पण़्डितः कविः । चतुर्स्त्रिशद्विधः सिद्धः सर्वकर्मोपहारकः
तमुपैमि स्वयं सिद्धं भक्तस्त्वन्यन्न वाञ्छति । द्वाविंशतिविधं सिद्धं सिद्धिसाधनकारणम्
मन्मुखाच्छूयतां नन्द सिद्धमन्त्रं गृहाण च । अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा
ईशित्वं च वशित्वं च तथा कामावसायिता । दूरश्रवणमेवेति परकायप्रवेशनम्
मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् । वह्निस्तम्भं जलस्तम्भं चिरंजीवित्वमेव च
वायुस्तम्भं क्षुत्पिपासानिद्रास्तम्भनमेव च । कायव्यूहं च वाक्सिद्धिं मृतानयनमौप्सितम्
सृष्टीनां करणं चैव प्राणाकर्षणमेव च । ॐ सर्वेश्वरेश्वराय सर्वदिघ्नविनाशिने मधुसूदनाय स्वाहेति
अयं सन्त्रो महागूढः सर्वेषां कल्पपादपः । सामवेदे च कथितः मिद्धानां सर्वमिद्धिदः
अनेन योगिनः सिद्धा मुनीन्द्राश्च सुरास्तथा । शतलक्षजपेनैव मन्त्रसिद्धिर्भवेत्सताम्
यदि नारायणक्षेत्रे हविष्यान्नरतो जपेत् । गत्वा कुरु जपं तातकाशिकां मणिकर्णिकाम्
श्रृशु नारायणक्षेत्रै जलाधस्तच्चतुष्टयम् । अत्र नारायणः स्वामी नान्यः स्वामी कदाचन