स्वप्ने च स भवेन्नित्यं धनाढ्यो भूवतिः स्वयम् । स्वप्ने सरोवरं दृष्टवा समुद्रं वा नदीं नदम्
शुक्लाहिं शुक्लशैलं च दृष्ट्वा श्रियमवाप्नुयात् । यं पश्यन्ति मृतं स्वप्ने स भवेच्चिरजीवनः
अरोगी रोगिणं दु खी सुशिनं च सुखं भवेत् । दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति
स्वप्ने दृष्ट्वा च चागतिं स च राजा भवेद्दृढम् । स्वप्ने वा कालिकां दृष्ट्वा लब्धवा स्फटिकमालिकाम्
इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद्ध्रुवम् । स्वप्ने वदति यं विप्रो मम दासो भवेति च
हरिदास्यं च मद्भक्तिं स लब्ध्वा वैष्णवो भवेत् । स्वप्ने विप्रो हरीः शंभुर्ब्राह्मणी कमला शिवा
शक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती । गोपालिकावेषधरी बालिका राधिका मम
बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः । एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo सुस्वप्नकथानं नाम सप्तसप्ततितमोऽध्यायः
अथाष्टसप्ततितमोऽध्यायः नन्द उवाच श्रीक़ष्ण जगतां नाथ सुस्वप्नश्च श्रुतो मया । वेदसारो नीतिसारो लौकिको वैदिकस्तथा
अधुना श्रोतुमिच्छामि पापं येषां च दर्शने । यस्मिन्कर्मणि वा वत्स तन्मां कथितुमर्हसि
वचनं वेदशाश्रोक्तं तथा वेदानुयायिनः । श्रोतुमिच्छन्ति संतप्ता लोकास्त्वन्मुखतस्तथा
वेदानां जनकस्त्वं च वैदिकानां सतामपि । प्रह्मादीनां सुराणां च मुनीनां जगतामपि
श्रुतं यत्त्वन्मुखाम्भोजात्प्रमाणं वचनामृतम् । तेन देहोऽभिषिक्तो मे वत्सविच्छेददाहनः
स्वप्ने यच्छरणाम्भोजं सर्वकामफलप्रदम् । ब्रह्मादयो न पश्यन्ति तदद्य दृष्टिगोचरम्
अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी । विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा
ईदृशं च दिनं वत्स कदा मम भविष्यति । त्वया ब्रह्मादिनाथेन संवादो मम पापिनः
कृपां कुरु कृपानाथ मम दोषं क्षमस्व च । वत्सबुद्ध्या च दुर्नीतं यत्कृतं च महेश्वर
ब्रह्मेशशेषमुनयो ध्यायन्ते त्वत्पदाम्बुजम् । सरस्वती श्रुतिर्यस्य स्तवने जडतां व्रजेत्
इत्येवमुक्त्वा नन्दश्च निरानन्दः शुचाऽऽकुलः । मूर्च्छामाप रुदित्वा च पुत्रविच्छेदविह्वलः
संत्रस्तो भगवान्कृष्णो बोधयामास यत्नतः । परमाध्यात्मिकं ज्ञानं ददौ तस्मै जगत्पतिः
श्रीभगवानुवाच हे नन्द जनकश्रेष्ठ सर्वश्रेष्ठ व्रजेश्वर । चेतनं कुरु कल्याम ज्ञानं च परमं श्रृणु
परमाध्यात्मिकं ज्ञानं ज्ञानिनां च सुदुल्रभम् । वेदशास्त्रे गोपनीयं तुभ्यमेव ददाम्यहम्
निबोध श्रूयतां नन्द सानन्दः सुसमाहितः । जन्ममृत्युचराव्याधिर्यदभ्यासान्न जायते
स्थिरो भव महाराज व्रजनाथ व्रजं व्रज । ज्ञानं लब्ध्वा सदानन्दः शोकमोहविवर्जितः
जलबुद्बुदवत्सर्वं संसारं सचराचरम् । प्रभाते स्वप्नवन्मिथ्या मोहकारणमेव च
मिथ्याकृत्रिमनिर्माणहेतुश्च पाञ्चभौतिकः । मायया सत्यबुद्ध्या च प्रतीतिं जायते नरः
कामक्रोधरोभमोहैर्वेष्टितः सर्वकर्मसु । मायया मोहितः शश्वज्ज्ञानहीनश्च दुर्बलः
निद्रातन्द्राक्षुत्पिपासाक्षमाश्रद्धादयादिभिः । लज्जा शान्तिर्धृतिः पुष्टिस्तुष्टिश्चाऽऽभिश्च वेष्टितः
मनोबुद्धिचेतनाभिः प्राणज्ञानात्मभिः सह । संसक्तः सर्वदेवैश्च यथा वृक्षश्च वायसैः