यस्य तुष्टा भवेत्स्वप्ने स भवेत्कविपण़्डितः । ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते च सा
स भवेद्विश्वविख्यातः कवीन्द्रः पण़्डितेश्वरः । यं पाठयति स्वप्ने वा मातेव च सुतं यथा
सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः । ब्राह्मणः पाठयेद्यं च पितेव यत्नपूर्वकम्
ददाति पुस्तकं प्रीत्या स च सत्सदृशो भवेत् । प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा
स पण्डितो यशस्वी च विख्यातश्च महीतले । स्वप्ने यस्मै महामन्त्रं विप्रो विप्रे ददाति चेत्
स भवेत्पुरुषः प्राज्ञो धनवान्गुणवान्सुधीः । स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम्
यस्मै ददाति विप्रश्च मन्त् सिद्धिश्च तद्भवेत् । विप्रं विप्रसमूहं च दृष्ट्वा नत्वाऽऽशिषं लभेत्
राजेन्द्रः स भवेद्वाऽपि किंवा च कविपण्डितः । शुक्लधान्ययुतां भूमीं यस्मै विप्र समुत्सृजेत्
स्वप्नेऽपि परितुष्टश्च स भवेत्पृथिवीपतिः । स्वप्न विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत्
चिरंजीवी भवेदायुर्धनवृद्धिर्भवेद्ध्रुवम् । विप्राय विप्रः संतुष्टो यस्मै कन्यां ददाति च
स्वप्ने च स भवेन्नित्यं धनाढ्यो भूवतिः स्वयम् । स्वप्ने सरोवरं दृष्टवा समुद्रं वा नदीं नदम्
शुक्लाहिं शुक्लशैलं च दृष्ट्वा श्रियमवाप्नुयात् । यं पश्यन्ति मृतं स्वप्ने स भवेच्चिरजीवनः
अरोगी रोगिणं दु खी सुशिनं च सुखं भवेत् । दिव्या स्त्री यं प्रवदति मम स्वामी भवानिति
स्वप्ने दृष्ट्वा च चागतिं स च राजा भवेद्दृढम् । स्वप्ने वा कालिकां दृष्ट्वा लब्धवा स्फटिकमालिकाम्
इन्द्रचापं शक्रवज्रं स प्रतिष्ठां लभेद्ध्रुवम् । स्वप्ने वदति यं विप्रो मम दासो भवेति च
हरिदास्यं च मद्भक्तिं स लब्ध्वा वैष्णवो भवेत् । स्वप्ने विप्रो हरीः शंभुर्ब्राह्मणी कमला शिवा
शक्ला स्त्री देवमाता वा जाह्नवी वा सरस्वती । गोपालिकावेषधरी बालिका राधिका मम
बालश्च बालगोपालः स्वप्नविद्भिः प्रकाशितः । एष ते कथितो नन्द सुस्वप्नः पुण्यहेतुकः
इति श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo सुस्वप्नकथानं नाम सप्तसप्ततितमोऽध्यायः
अथाष्टसप्ततितमोऽध्यायः नन्द उवाच श्रीक़ष्ण जगतां नाथ सुस्वप्नश्च श्रुतो मया । वेदसारो नीतिसारो लौकिको वैदिकस्तथा
अधुना श्रोतुमिच्छामि पापं येषां च दर्शने । यस्मिन्कर्मणि वा वत्स तन्मां कथितुमर्हसि
वचनं वेदशाश्रोक्तं तथा वेदानुयायिनः । श्रोतुमिच्छन्ति संतप्ता लोकास्त्वन्मुखतस्तथा
वेदानां जनकस्त्वं च वैदिकानां सतामपि । प्रह्मादीनां सुराणां च मुनीनां जगतामपि
श्रुतं यत्त्वन्मुखाम्भोजात्प्रमाणं वचनामृतम् । तेन देहोऽभिषिक्तो मे वत्सविच्छेददाहनः
स्वप्ने यच्छरणाम्भोजं सर्वकामफलप्रदम् । ब्रह्मादयो न पश्यन्ति तदद्य दृष्टिगोचरम्
अतः परं त्वत्पदाब्जं क्व पश्यामि च पातकी । विण्मूत्रधारी देहो मे निबद्धश्च स्वकर्मणा
ईदृशं च दिनं वत्स कदा मम भविष्यति । त्वया ब्रह्मादिनाथेन संवादो मम पापिनः
कृपां कुरु कृपानाथ मम दोषं क्षमस्व च । वत्सबुद्ध्या च दुर्नीतं यत्कृतं च महेश्वर
ब्रह्मेशशेषमुनयो ध्यायन्ते त्वत्पदाम्बुजम् । सरस्वती श्रुतिर्यस्य स्तवने जडतां व्रजेत्
इत्येवमुक्त्वा नन्दश्च निरानन्दः शुचाऽऽकुलः । मूर्च्छामाप रुदित्वा च पुत्रविच्छेदविह्वलः