स्वप्ने च ब्रह्मणो देवो ब्राह्मणी देवकन्यका । ब्राह्मणो ब्राह्मणी वाऽपि संतुष्टा सस्मिता सती
फलं ददाति यस्मै च तस्य पुत्रो भविष्यति । यं स्वप्ने ब्राह्मणा नन्द कुर्वन्ति च शुभाशिषम्
यद्वदन्ति भवेत्तस्य तस्यैश्वर्य भवेद्ध्रुवम् । परितुष्टो द्विजश्रेष्ठश्टाऽऽयाति यस्य मन्दिरम्
नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम् । संपत्तिस्वस्य भवति यशश्च विपुलं शुभम्
पदे पदे सुखं तस्य समानं गौरवं लभेत् । अकस्मादपि स्वप्ने तु लभते सुरभिं यदि
भूमिलाभो भवेत्तस्य भार्या चापि पतिव्रता । करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि
राज्यलाभोभवेत्तस्य निश्चितं च श्रुतौ मतम् । स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यतियं व्रज
तीर्थस्नायी भवेत्सोऽपि निश्चितं च श्रियाऽन्वितः । स्वप्ने ददाति पुष्पं च यस्मै पुण्यवते द्विजः
जययुक्तो भवेत्सोऽपि यशस्वी च धरी सुखी । स्वप्ने दृष्टवा च तीर्थानि सौधरत्नगृहाणि च
जययुक्तश्च धनवांस्तीर्थस्नायी भवेन्नरः । स्वप्ने तु पूणंकलशं कश्चित्कस्मै ददाति च
पुत्रलाभो भवेत्तस्य मंपत्तिं वा समालभेत् । हस्ते कृत्वा तु कुडवमाढकं वारसुन्दरी
यस्य मन्दिरमायाति स लक्ष्मीं लभते ध्रुवम् । दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज
अर्थलाभो भवेत्तस्य दारिद्र्यं च प्रयाति च । यस्य गेहं समायाति ब्राह्मणो भार्यया सह
पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा । ब्राह्मणो ब्राह्मणी वाऽपि स्वप्ने तस्मै प्रदीयते
धान्यं पुष्पाञ्जलिं वाऽपि तस्य श्रीः सर्दतोमुखी । मुक्ताहारं पुष्पमाल्यं चन्दनं च लभेद्व्रज
स्वाप्ने ददाति विप्रश्च तस्य श्रीः सर्वo । गोरोचनं पताकां वा हरिद्रामिक्षुदण्डकम्
सिद्धान्नं च लभेत्स्वप्ने तस्य श्रीः सर्वo । ब्राह्मणो ब्रह्माणी वाऽपि ददाति यस्य मस्तके
छत्रं वा शुक्लवान्यं व स चराजा भविष्यति । स्वप्ने लथस्थः पुरुषः शुक्लमाल्यानुलेपनः
तत्रस्थोदधि भुङ्क्ते च पायसं वा लृपो भवेत् । स्वप्ने ददाति विप्रश्च ब्राह्मणी च सुधांदधि
प्रशस्तपात्रं यस्मै वा सोऽपि राजा भवेद्ध्रुवम् । कुमारी चाष्टवर्षीया रत्नभूषणभूषिता
यस्य तुष्टा भवेत्स्वप्ने स भवेत्कविपण़्डितः । ददाति पुस्तकं स्वप्ने यस्मै पुण्यवते च सा
स भवेद्विश्वविख्यातः कवीन्द्रः पण़्डितेश्वरः । यं पाठयति स्वप्ने वा मातेव च सुतं यथा
सरस्वतीसुतः सोऽपि तत्परो नास्ति पण्डितः । ब्राह्मणः पाठयेद्यं च पितेव यत्नपूर्वकम्
ददाति पुस्तकं प्रीत्या स च सत्सदृशो भवेत् । प्राप्नोति पुस्तकं स्वप्ने पथि वा यत्र तत्र वा
स पण्डितो यशस्वी च विख्यातश्च महीतले । स्वप्ने यस्मै महामन्त्रं विप्रो विप्रे ददाति चेत्
स भवेत्पुरुषः प्राज्ञो धनवान्गुणवान्सुधीः । स्वप्ने ददाति मन्त्रं वा प्रतिमां वा शिलामयीम्
यस्मै ददाति विप्रश्च मन्त् सिद्धिश्च तद्भवेत् । विप्रं विप्रसमूहं च दृष्ट्वा नत्वाऽऽशिषं लभेत्
राजेन्द्रः स भवेद्वाऽपि किंवा च कविपण्डितः । शुक्लधान्ययुतां भूमीं यस्मै विप्र समुत्सृजेत्
स्वप्नेऽपि परितुष्टश्च स भवेत्पृथिवीपतिः । स्वप्न विप्रो रथे कृत्वा नानास्वर्गं प्रदर्शयेत्
चिरंजीवी भवेदायुर्धनवृद्धिर्भवेद्ध्रुवम् । विप्राय विप्रः संतुष्टो यस्मै कन्यां ददाति च