जलौकसं वृश्चिकं च सर्प च यदि पश्यति । धनं पुत्रं च विजयं प्रतिष्ठां वा लभेदिति
शृङ्गिभिर्दंष्ट्रिभिः कोलैर्वानरैः पीडितो यदि । निश्चितं च भवेद्राजा धनं च विपुलं लभेत्
मत्स्यं मांसं मौक्तिकं च शङ्खं चन्दनहीरकम् । यस्तु पश्यति स्वप्नान्ते विपुलं धनमालभेत्
सुरां च रुधिरं स्वर्ण भुक्त्वा विष्ठांधनं लभेत्। प्रतिमां शिवलिङ्गंच लभेद्दृष्ट्वा जयं धनम्
फलितं पुष्पितं बिल्वमाम्रं दृष्ट्वा लभेद्धनम् । दृष्ट्वा च ज्वलदग्निं च धनं बुद्धिं श्रियं लभेत्
आमलकं धात्रौफलमुत्पलं च धनागमम् । देवताश्च द्विजा गावः पितरो लिङ्गिनस्तथा
यद्ददाति मिथःस्वप्ने तत्तथैव भविष्यति । शुक्लाम्बरधरा नार्यः शुक्लमाल्यानुलेपना । समाश्लिष्यन्ति यं स्वप्ने तस्य श्रीः सर्वतः सुखम्
पीताम्बरधरां नारीं पीतमाल्यानुलेपनाम् । अवगूहति यः स्वप्ने कल्याणं तस्य जायते
सर्वाणि शुक्लानि प्रशंसितानि भस्मास्थिकार्पासविवर्जितानि । सर्वाणि कृष्णन्यतिनिन्दितानि गोहस्तिवाजिद्विजदेववर्ज्यम्
दिव्य स्त्री सस्मिता विप्रा नत्नभूषणभूषिता । यस्य मन्दिरमायाति स प्रियं लभते ध्रुवम्
स्वप्ने च ब्रह्मणो देवो ब्राह्मणी देवकन्यका । ब्राह्मणो ब्राह्मणी वाऽपि संतुष्टा सस्मिता सती
फलं ददाति यस्मै च तस्य पुत्रो भविष्यति । यं स्वप्ने ब्राह्मणा नन्द कुर्वन्ति च शुभाशिषम्
यद्वदन्ति भवेत्तस्य तस्यैश्वर्य भवेद्ध्रुवम् । परितुष्टो द्विजश्रेष्ठश्टाऽऽयाति यस्य मन्दिरम्
नारायणः शिवो ब्रह्मा प्रविशेत्तु तदाश्रमम् । संपत्तिस्वस्य भवति यशश्च विपुलं शुभम्
पदे पदे सुखं तस्य समानं गौरवं लभेत् । अकस्मादपि स्वप्ने तु लभते सुरभिं यदि
भूमिलाभो भवेत्तस्य भार्या चापि पतिव्रता । करेण कृत्वा हस्ती यं मस्तके स्थापयेद्यदि
राज्यलाभोभवेत्तस्य निश्चितं च श्रुतौ मतम् । स्वप्ने तु ब्राह्मणस्तुष्टः समाश्लिष्यतियं व्रज
तीर्थस्नायी भवेत्सोऽपि निश्चितं च श्रियाऽन्वितः । स्वप्ने ददाति पुष्पं च यस्मै पुण्यवते द्विजः
जययुक्तो भवेत्सोऽपि यशस्वी च धरी सुखी । स्वप्ने दृष्टवा च तीर्थानि सौधरत्नगृहाणि च
जययुक्तश्च धनवांस्तीर्थस्नायी भवेन्नरः । स्वप्ने तु पूणंकलशं कश्चित्कस्मै ददाति च
पुत्रलाभो भवेत्तस्य मंपत्तिं वा समालभेत् । हस्ते कृत्वा तु कुडवमाढकं वारसुन्दरी
यस्य मन्दिरमायाति स लक्ष्मीं लभते ध्रुवम् । दिव्या स्त्री यद्गृहं गत्वा पुरीषं विसृजेद्द्विज
अर्थलाभो भवेत्तस्य दारिद्र्यं च प्रयाति च । यस्य गेहं समायाति ब्राह्मणो भार्यया सह
पार्वत्या सह शंभुर्वा लक्ष्म्या नारायणोऽथवा । ब्राह्मणो ब्राह्मणी वाऽपि स्वप्ने तस्मै प्रदीयते
धान्यं पुष्पाञ्जलिं वाऽपि तस्य श्रीः सर्दतोमुखी । मुक्ताहारं पुष्पमाल्यं चन्दनं च लभेद्व्रज
स्वाप्ने ददाति विप्रश्च तस्य श्रीः सर्वo । गोरोचनं पताकां वा हरिद्रामिक्षुदण्डकम्
सिद्धान्नं च लभेत्स्वप्ने तस्य श्रीः सर्वo । ब्राह्मणो ब्रह्माणी वाऽपि ददाति यस्य मस्तके
छत्रं वा शुक्लवान्यं व स चराजा भविष्यति । स्वप्ने लथस्थः पुरुषः शुक्लमाल्यानुलेपनः
तत्रस्थोदधि भुङ्क्ते च पायसं वा लृपो भवेत् । स्वप्ने ददाति विप्रश्च ब्राह्मणी च सुधांदधि
प्रशस्तपात्रं यस्मै वा सोऽपि राजा भवेद्ध्रुवम् । कुमारी चाष्टवर्षीया रत्नभूषणभूषिता