सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् । अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम्
मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् । इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि
अथ सप्तस्पततितमोऽध्यायः नन्द उवाच केन स्पप्नेन किं पुण्यं केन मोक्षो भवेत्सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत्सर्वं कथय प्रभो
श्रीभगवानुवाच वेदेषु सामवेदश्च प्रशस्तः सर्वकर्मसु । तथैव कण्वशाखायां पुण्यकाण्डे मनोहरे
स व्यवतो यश्च दुःस्वप्नः शश्वतपुण्यफलप्रदः । तत्सर्व निखिलं तात कथयामि निशामय
स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत्
स्वप्नक्तु प्रथमे यामे संवत्सरफलप्रदः । द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयरे
चतुर्थे चार्धमासेन स्वप्नः स्वात्मफलप्रदः । दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्णने
प्रातःस्वप्नश्च फलदस्तत्क्षणं यदि बोधितः । दिने मनसि यद्दृष्टं तत्सर्व च लभेद्ध्रुवम्
चिन्ताव्याधिसमायुक्तो नरः स्वप्नं च पश्यति । तत्सर्व निष्फलं तात प्रयात्येव न संशयः
जचडो मूत्रपुरीषेण पीडितश्च भयाकुलः । दिगम्बरो मुक्तकेशो न लभेत्स्वप्नजं फलम्
दृष्ट्वा स्वप्नं च निद्रालुर्यदि निद्रां प्रयति च । विमूढो वक्ति चेद्रात्रौ न लभेत्स्वप्नजं फलम्
उक्तवा काश्यपगोत्रे च विपर्त्ति लभते ध्रुवम् । दुर्गते दुर्गतिं याति नीचे व्याधिंप्रयाति च
शत्रौ भयं च लभते मूर्खे च कलहं लभेत् । कामिन्यां धनहानिः स्याद्रात्रौ जोरभयं भवेत्
निद्रायां लभते शोकं पण़्डिते वाञ्छितं फलम् । न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज
गवां च कुञ्जराणां च हयानां च व्रजेश्वर । प्रासादानां च शैलानां वृक्षाणां च तथैव च
आरोहणं च धनदं भोजनं रोदनं तथा । प्रतिगृह्यतथा वीणां सस्याढ्यां भूमिमालभेत्
शस्त्रास्त्रेण यदा विद्धो व्रणेन कृमिणा तथा । विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थवान्भवेत्
स्वप्नेऽप्यगम्यागमतो भार्यालाभं करोति यः । मूत्रसिक्तः पिबेच्छुकं नरकं च विशत्यपि
नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् । शुभवार्तामवाप्नोति विपुलं चार्थमालभेत्
गजं नृपं सुवर्ण च वृषभं घेनुमेव च । दीपमन्नं फलं पुष्पं कन्यां छत्रं रथं ध्वजम्
कुटुम्बं लभते दृष्ट्वा कीर्तिं च विपुलां श्रियम् । पूर्णकुम्भंद्विजं वह्निं पुष्पताम्बूलमन्दिरम्
शुक्लधान्यं नदं वेश्यां दृष्ट्वा श्रियमवाप्नुयात् । गोक्षीरं च घृतं दृष्ट्वा चार्थ पुण्यधनं लभेत्
पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु । मिष्टान्नं स्वस्तिकं भुक्त्वा ध्रुवं राजा भविष्यति
पक्षिणां मानुषाणां च भुङ्क्ते मांसं नरो यदि । बह्वर्थं शुभवार्तां च लभते वाञ्छितं फलम्
छत्रं वा पादुकां वाऽपि लब्ध्वा धान्यं च गच्छति । असिं च निर्मरं तीक्ष्णं तत्तथैव भविष्यति
हेलया संतरेद्यो हि स प्रधानो भविष्यति । दृष्ट्वा च फलितं वृक्षं धनमाप्नोति निश्चितम्
सर्पेण भक्षितो यो हि णर्थलात्रश्च तद्भवेत् । स्वप्ने सूर्य विधुं दृष्ट्वा मुच्यते व्याधिबन्धनात्
वडवां कुक्कुटीं दृष्ट्वा कौञ्चीं भार्यं लभेद्ध्रुवम् । स्वप्नेयो निगडैर्बद्धः प्रतिष्ठां पुत्रमालभेत्
दध्यन्नं पायसं भुङ्कते पद्मपत्रे नदीतटे । विशीर्णपद्मपत्रे च सोऽपि राजा मविष्यति