आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः । उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत्
ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् । माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः
फलदानफलं स्वर्ग लभते नात्र संशयः । सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत्
चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे । अनाथाय सुविप्राय यदि गेहं प्रदीयते
अत्रैव मानवर्ष च शक्रलोके महीयते । दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते
अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् । व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना
व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे । गोकुले गोकुले वत्स वत्स वत्स निराकुले
व्याकुलानां गोकुलानां संकुले च व्रजे व्रजे । एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम्
काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् । त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम्
देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् । उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम्
सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् । अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम्
मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् । इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि
अथ सप्तस्पततितमोऽध्यायः नन्द उवाच केन स्पप्नेन किं पुण्यं केन मोक्षो भवेत्सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत्सर्वं कथय प्रभो
श्रीभगवानुवाच वेदेषु सामवेदश्च प्रशस्तः सर्वकर्मसु । तथैव कण्वशाखायां पुण्यकाण्डे मनोहरे
स व्यवतो यश्च दुःस्वप्नः शश्वतपुण्यफलप्रदः । तत्सर्व निखिलं तात कथयामि निशामय
स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत्
स्वप्नक्तु प्रथमे यामे संवत्सरफलप्रदः । द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयरे
चतुर्थे चार्धमासेन स्वप्नः स्वात्मफलप्रदः । दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्णने
प्रातःस्वप्नश्च फलदस्तत्क्षणं यदि बोधितः । दिने मनसि यद्दृष्टं तत्सर्व च लभेद्ध्रुवम्
चिन्ताव्याधिसमायुक्तो नरः स्वप्नं च पश्यति । तत्सर्व निष्फलं तात प्रयात्येव न संशयः
जचडो मूत्रपुरीषेण पीडितश्च भयाकुलः । दिगम्बरो मुक्तकेशो न लभेत्स्वप्नजं फलम्
दृष्ट्वा स्वप्नं च निद्रालुर्यदि निद्रां प्रयति च । विमूढो वक्ति चेद्रात्रौ न लभेत्स्वप्नजं फलम्
उक्तवा काश्यपगोत्रे च विपर्त्ति लभते ध्रुवम् । दुर्गते दुर्गतिं याति नीचे व्याधिंप्रयाति च
शत्रौ भयं च लभते मूर्खे च कलहं लभेत् । कामिन्यां धनहानिः स्याद्रात्रौ जोरभयं भवेत्
निद्रायां लभते शोकं पण़्डिते वाञ्छितं फलम् । न प्रकाश्यश्च सुस्वप्नः पण्डितैः काश्यपे व्रज
गवां च कुञ्जराणां च हयानां च व्रजेश्वर । प्रासादानां च शैलानां वृक्षाणां च तथैव च
आरोहणं च धनदं भोजनं रोदनं तथा । प्रतिगृह्यतथा वीणां सस्याढ्यां भूमिमालभेत्
शस्त्रास्त्रेण यदा विद्धो व्रणेन कृमिणा तथा । विष्ठया रुधिरेणैव संयुक्तोऽप्यर्थवान्भवेत्
स्वप्नेऽप्यगम्यागमतो भार्यालाभं करोति यः । मूत्रसिक्तः पिबेच्छुकं नरकं च विशत्यपि
नगरं प्रविशेद्रक्तं समुद्रं वा सुधां पिबेत् । शुभवार्तामवाप्नोति विपुलं चार्थमालभेत्