तत्तुल्यं धेनुदाने च ह्यर्धं सामान्यगोस्तथा । लभेद्वत्सप्रसूतानां दाने दाने फलं भुवः
भूमिदाने रेणुमानवर्ष स्थानं च मत्पदे । ज्ञानदाने महत्पुण्यं वैकुण्ठे मोदते चिरम्
श्रियं लभेत्स्वर्णदाने राजत्वं रजतेन च । अन्नदाने फलं गहं कथं जानामि पै शुतम्
लभते सर्वदानस्य फलं ब्रह्मणभोजने । अन्नदानात्परं दानं न भूतं न भविष्यति
नात्र पात्रपरीक्षाऽस्ति न कालनियमः क्वचित् । अन्नदाने शुभं पुण्यं दातुः पात्रं त्वपातकी
अन्नदानं च धन्यं स्याद्भूमौ वैकुण्ठहेतुकम् । वस्त्रं ददाति विप्रय दरिद्राय कुटुम्बिने
वस्त्रंसूत्रमानवर्ष वैकुण्ठे मोदते चिरम् । सुरम्ये चन्द्रलोके च वारुणे च तथैव च
कृत्वा लोहप्रदीपं च स्वर्णवर्तिसमन्वितम् । दत्तवा घृतप्रदीपं च हरये परमात्मने
अन्धकारं च न गृहं यमदूतं यमं तथा । न हि पश्यति दाता च प्रयाति मम मन्दिरम्
ब्रह्मणाय च दत्तवैव न याति यमयातनाम् । दिव्यवर्षसहश्रं च मोदते शक्रमन्दिरे
आसनं लभते स्वर्गे वस्तुमात्रानुरूपतः । उत्तमे लक्षवर्षे च तदर्ध चेतरे व्रजेत्
ताम्पूलेन लभेद्भोगं स्वर्गे वर्षशतं व्रजेत् । माल्यदाने प्रियं स्वर्ग वस्तुमात्रानुरूपतः
फलदानफलं स्वर्ग लभते नात्र संशयः । सामान्यशय्यादानेन स्वर्ग वर्षशतं व्रजेत्
चतुर्गुणं प्रकृष्टायां गुणलक्षं दिलक्षणे । अनाथाय सुविप्राय यदि गेहं प्रदीयते
अत्रैव मानवर्ष च शक्रलोके महीयते । दृष्ट्वा बुभुक्षितं विप्रमन्नं तस्मै प्रदीयते
अयलां श्रियमाप्नोति पुत्रपौत्रविवर्धिनीम् । व्रजनाथ व्रजं गत्वा व्रजभूमौ व्रजाधुना
व्रज भोजय विपांश्च व्रज सर्व व्रजे व्रजे । गोकुले गोकुले वत्स वत्स वत्स निराकुले
व्याकुलानां गोकुलानां संकुले च व्रजे व्रजे । एतत्ते कथितं नन्द सानन्दं पुण्यवर्धनम्
काश्यपं दुर्भगं नीचं शत्रुमज्ञानिनं स्त्रेयम् । त्यक्त्वा रात्रिं च दिवसे वक्ति विप्रं मुपण्डितम्
देवालये च देवं वाऽप्यश्वत्थतुलशीवटम् । उक्त्वा तद्द्विगुणं पुण्यमप्रकाश्य चतुर्गुणम्
सुस्वप्नदर्शने प्राज्ञो गंगास्नानफलं लभेत् । अर्थं वित्तं च भार्या च भूमिं पुत्रं लभेत्प्रजाम्
मोक्षं च परमैश्वर्यं लभते सर्ववाञ्छितम् । इत्येवं कथितं तात किं भूयः श्रोतुमिच्छसि
अथ सप्तस्पततितमोऽध्यायः नन्द उवाच केन स्पप्नेन किं पुण्यं केन मोक्षो भवेत्सुखम् । कोऽपि कोऽपि च सुस्वप्नस्तत्सर्वं कथय प्रभो
श्रीभगवानुवाच वेदेषु सामवेदश्च प्रशस्तः सर्वकर्मसु । तथैव कण्वशाखायां पुण्यकाण्डे मनोहरे
स व्यवतो यश्च दुःस्वप्नः शश्वतपुण्यफलप्रदः । तत्सर्व निखिलं तात कथयामि निशामय
स्वप्नाध्यायं प्रवक्ष्यामि बहुपुण्यफलप्रदम् । स्वप्नाध्यायं नरः श्रुत्वा गङ्गास्नानफलं लभेत्
स्वप्नक्तु प्रथमे यामे संवत्सरफलप्रदः । द्वितीये चाष्टभिर्मासैस्त्रिभिर्मासैस्तृतीयरे
चतुर्थे चार्धमासेन स्वप्नः स्वात्मफलप्रदः । दशाहे फलदः स्वप्नोऽप्यरुणोदयदर्णने
प्रातःस्वप्नश्च फलदस्तत्क्षणं यदि बोधितः । दिने मनसि यद्दृष्टं तत्सर्व च लभेद्ध्रुवम्
चिन्ताव्याधिसमायुक्तो नरः स्वप्नं च पश्यति । तत्सर्व निष्फलं तात प्रयात्येव न संशयः