नलिनी नन्दिनी सीता मालिनी च महापगा
पद्मावती भोगवती स्वर्णरेखा च कौशिकी
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती 1.26.
अहल्या चादितिः संज्ञा स्वधा स्वाहाऽप्यरुन्धती
स्नात्वा स्नात्वा महापूतः कुर्य्यात्तु तिलक बुधः
स्नानं दानं तपो होमो देवतापितृकर्म च
ब्राह्मणस्तिलकं कृत्वा कुर्य्यात्सन्ध्यां च तर्पणम्
प्रक्षाल्य पादौ यत्नेन धृत्वा धौते च वाससी
विना पादक्षालनं यः स्नात्वा विशति मन्दिरम्
परिधाय स्निग्धवस्त्रं गृहं च प्रविशेद्गृही
जङ्घोर्ध्वतश्च यो विप्रः पादौ प्रक्षालयेद्यदा
उपविश्यासने ब्रह्मञ्छुचिराचम्य साधकः
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले 1.26.
सर्वेषु शस्ता पूजा च शालग्रामे च नारद
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
शालग्रामजलं भक्त्या नित्यमश्नाति यो नरः
शालग्रामशिलाचक्रं यत्र तिष्ठति नारद
तत्र यो हि मृतो देही ज्ञानाज्ञानेन दैवतः
शालग्रामं विनाऽन्यत्र कः साधुः पूजयेद्धरिम्
पूजाधारश्च कथितः श्रूयतां पूजनक्रमः
कश्चिद्ददाति हरये चोपचारांश्च षोडश
कश्चिद्द्वादश वस्तूनि पञ्च वस्तूनि कश्चन
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् 1.26.
गन्धं माल्यं च शय्यां च ललितां सुविलक्षणाम्
गन्धान्नतल्पताम्बूलं विना द्रव्याणि द्वादश
सर्वाण्येतानि मूलेन दद्यात्साधकसत्तमः
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम्
वर्णन्यासं विनिर्वर्त्य चार्घ्यपात्रं विनिर्दिशेत्
जलेनापूर्य्य शङ्खं च तत्र संस्थापयेद्द्विजः