उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् । सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे
दृष्टवा मत्प्रतिमां नन्द करोति जन्मखण्डनम् । देलायमानं गोविन्दं पुण्ये वृन्दावने च माम्
दृष्टवा संपूज्य नत्वा च करोति जन्मखण्डनम् । भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्
संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् । रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः
उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम्
कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजरं कृत्वा करोति जन्मखण्डनम्
चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्
रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने । उपेष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्
स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः। प्रणामं कर्तुमीशं तं समायाति विभीषणः
गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् । प्रणामं कर्तुमीशं त समायाति य माधवः
दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् । जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम्
दीननाथं दिनकरं कोणार्के चोत्तरायणे । उपोष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्
कृषिकोष्ठे सुवसने कलर्विके वसुंधरे । विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके
पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् । नन्दिनं शंकरं दृष्ट्वा करोति जन्मनः क्षयम्
उपोष्य प्रातः संपूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः । पारणं च दधि प्राश्य करोति जन्मखण्डनम्
त्रिकूटे मणिभद्रे च पश्चिमोदधिसंनिधौ । समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात्
प्रतिमासु मदीयासु पार्वतीप्रतिमासु च । जीवं संन्यस्य संपूज्य करोति जन्मखण्डनम्
शिवदुर्गालयं कृत्वा मदीयं च विशेषतः । शिवसंस्थापनं कृत्वा करोति जन्मखण्डनम्
पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् । विप्रसंस्थापनं कृत्वा करोति जन्मखण्डनम्
न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् । जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः
गण्यन्ते पांसवो भूमेर्गण्यन्ते वृष्टिबिन्दवः । न गण्यते विधात्राऽपि विप्रसंस्थापने फलम्
कृत्वोपजींयं विप्रस्य जीवन्मुक्तो भवेन्नरः । अचलां श्रीयमाप्नोति परे सुक्तिचतुष्टयम्
मद्दास्यभक्तिं स लभेद्वैकुण्ठे मोदके चिरम् । न हि पातो भवेत्तस्य यथा मे परमात्मनः
कुमारीमष्टवर्षोयां सुविप्रय ददाति यः । संपूज्य सर्वाभरणां दुर्गादानफलं लभेत्
सर्व स्वर्ग्य समालोक्य ब्रह्मलोकेषु पूजितः । लभते मम दास्यं च वैसुण्ठे मोदते चिरम्
विवाहदर्शने कोटिस्वर्णदानफलं लभेत् । अन्ते स्वर्गे प्रयात्येवमिहैव निश्चलां श्रियम्
यः सुविप्रमनाथं च दरिद्रं च सुपण़्डितम् । दृष्ट्वा कुर्यात्तद्विवाहं स मोक्षं लभते ध्रुवम्
यच्छत्रपादुकादानं शालग्रामस्य योषितः । करोति भक्त्या पुण्याहे पृथ्वीदानफलं लभेत्
गजचदाने च तल्लोममानवर्ष श्रुतौ श्रुतम् । चतुर्गुणं गजेन्द्रं च मोदते मम मन्दिरे
गजर्ध श्वेततुरगे तदर्ध चेतने पितः । गजतुल्यं कृष्णगवां दाने च तत्फलं लभेत्