हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे । श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम्
शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् । कृत्वोपवासं पूजां च करोति जन्मखण्डनम्
जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् । प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम्
पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम्
सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः । उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने
दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् । चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे
दृष्ट्वा नत्वा भद्रकालीं करोति जन्मखण्डनम् । अयोध्यायां च रामं च श्रीरामनवमीदिने
संपूज्य नत्वा दृष्ट्वा च करोति जन्मखण्डनम् । उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे
मंपूज्य दृष्ट्वा मामेकं करोति जन्मखण्डनम् । दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत्
पितणां स्वात्मनश्चैव करोति जन्मखण्डनम् । प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि
उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् । सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे
दृष्टवा मत्प्रतिमां नन्द करोति जन्मखण्डनम् । देलायमानं गोविन्दं पुण्ये वृन्दावने च माम्
दृष्टवा संपूज्य नत्वा च करोति जन्मखण्डनम् । भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्
संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् । रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः
उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम्
कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजरं कृत्वा करोति जन्मखण्डनम्
चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्
रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने । उपेष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्
स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः। प्रणामं कर्तुमीशं तं समायाति विभीषणः
गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् । प्रणामं कर्तुमीशं त समायाति य माधवः
दृष्ट्वा साक्षाद्वसन्तं च सर्वेशं चन्द्रशेखरम् । जीवन्मुक्तो भवेदन्ते प्रयाति हरिमन्दिरम्
दीननाथं दिनकरं कोणार्के चोत्तरायणे । उपोष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्
कृषिकोष्ठे सुवसने कलर्विके वसुंधरे । विस्पन्दके राजकोष्ठे नन्दके पुष्पभद्रके
पार्वतीप्रतिमां दृष्ट्वा कार्तिकेयं गणेश्वरम् । नन्दिनं शंकरं दृष्ट्वा करोति जन्मनः क्षयम्
उपोष्य प्रातः संपूज्य दृष्ट्वा स्तुत्वा स्तुतौ नतः । पारणं च दधि प्राश्य करोति जन्मखण्डनम्
त्रिकूटे मणिभद्रे च पश्चिमोदधिसंनिधौ । समुपोष्य दधि प्रश्य मां दृष्ट्वा मुक्तिमाप्नुयात्
प्रतिमासु मदीयासु पार्वतीप्रतिमासु च । जीवं संन्यस्य संपूज्य करोति जन्मखण्डनम्
शिवदुर्गालयं कृत्वा मदीयं च विशेषतः । शिवसंस्थापनं कृत्वा करोति जन्मखण्डनम्
पुष्पोद्यानं च शंकुं च सेतुं खातं सरोवरम् । विप्रसंस्थापनं कृत्वा करोति जन्मखण्डनम्
न च वेदाः पुराणानि ब्रह्मसंस्थापनं फलम् । जानन्ति सन्तो मुनयः सुरा विप्रादयः पितः