शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा । कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं
पताकामक्षयवटं तरुं देवोत्थितं शुभम् । देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः
देवाक्षितां देवद्यटं सुगन्धिपवनं तथा । शङ्खं च दुंदुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः
शुकिंत प्रवालं रजतं स्फटिकं कुशमूलकम् । गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः
पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् । स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यं लभेन्नरः
तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् । यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः
गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् । पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम्
रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् । सुवेषकां सुवसनां दिव्यभूषणभूषिताम्
वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् । सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः
कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् । संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्
हिङ्गुलायां तथाऽष्टम्यामिषे मासि सिते शुभे । श्रीदुर्गाप्रतिमां दृष्ट्वा करोति जन्मखण्डनम्
शिवरात्रौ च काश्यां च विश्वनाथस्य दर्शनम् । कृत्वोपवासं पूजां च करोति जन्मखण्डनम्
जन्माष्टमीदिने भक्तो दृष्ट्वा मां बिन्दुमाधवम् । प्रणम्य पूजां कृत्वा च करोति जन्मखण्डनम्
पौषे मासि शुक्लरात्रौ यत्र यत्र स्थले नरः । पद्मायाः प्रतिमां दृष्ट्वा करोति जन्मखण्डनम्
सप्तजन्म भवेत्तस्य पुत्रः पौत्रो धनेश्वरः । उपोष्यैकादशीं स्नात्वा प्रभाते द्वादशीदिने
दृष्ट्वा काश्यामन्नपूर्णां करोति जन्मखण्डनम् । चैत्रै मासि चतुर्दश्यां कामरूपेषु पुण्यदे
दृष्ट्वा नत्वा भद्रकालीं करोति जन्मखण्डनम् । अयोध्यायां च रामं च श्रीरामनवमीदिने
संपूज्य नत्वा दृष्ट्वा च करोति जन्मखण्डनम् । उपोष्य पुष्करे स्नात्वा किंवा बदरिकाश्रमे
मंपूज्य दृष्ट्वा मामेकं करोति जन्मखण्डनम् । दत्तवा तिष्णुपदे पिण्डं विष्णुं यश्च प्रपूज्येत्
पितणां स्वात्मनश्चैव करोति जन्मखण्डनम् । प्रयागे मुण्डनं कृत्वा दानं च कुरुते यदि
उपोष्य नैमिषारण्ये करोति जन्मखण्डनम् । सिद्धिं कृत्वा च वदरींभुङ्क्ते बदरिकाश्रमे
दृष्टवा मत्प्रतिमां नन्द करोति जन्मखण्डनम् । देलायमानं गोविन्दं पुण्ये वृन्दावने च माम्
दृष्टवा संपूज्य नत्वा च करोति जन्मखण्डनम् । भाद्रे दृष्ट्वा च मञ्चस्थं मामेव मधुसूदनम्
संपूज्य नत्वा भक्तश्च करोति जन्मखण्डनम् । रथस्थं च जगन्नाथं यो द्रक्ष्यति कलौ नरः
उत्तरायणसंक्रान्त्यां प्रयागे स्नानमाचरेत् । संपूज्य नत्वा मामेव करोति जन्मखण्डनम्
कार्तिक्यां पूर्णिमायां च दृष्ट्वा मत्प्रतिमां शुभाम् । उपोष्य पूजरं कृत्वा करोति जन्मखण्डनम्
चन्द्रभागासमीपे च माध्यां च मां नमेत्सुधीः । राधया सह मां दृष्ट्वा करोति जन्मनः क्षयम्
रामेश्वरं सेतुबन्ध अषाणीपूर्णिमादिने । उपेष्य दृष्ट्वा संपूज्य करोति जन्मखण्डनम्
स्वर्गे विद्याधरा रात्रौ नृत्यन्ति च सुहुर्मुहुः। प्रणामं कर्तुमीशं तं समायाति विभीषणः
गायन्ति किंनरा रात्रौ गन्धर्वाश्च मनोहरम् । प्रणामं कर्तुमीशं त समायाति य माधवः