तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा । वैसुण्ठे सा महालक्ष्मीर्गोलोके राधिका सती
मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती य सा । सा दुर्गा मेनकाकन्या दैत्यदुर्गतिनाशिनी
स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे । सा वाणी सा च सावित्री विद्याधिष्ठातृदेवता
वह्नौ स दाहिकाशक्तिः प्रभाशक्तिश्च भास्करे । शोभाशक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतता
सस्यप्रसूता शक्तिश्च धारणा च धरासु सा । ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिःसुरेषु सा
तपस्विनां तपस्या का गृहिणां गृहदेवता । मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा
मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा । नृपाणां राज्यलक्ष्मीश्च वणिजां लभ्यरूपिणी
परि संसारसिन्धूनां त्रयीतत्त्वा तु तारिणी । सत्सु सद्बुद्धिरूपा सा मेधाशक्तिस्वरूपिणी
व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु । क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीसु च
एवं रूपा च या शक्तिर्मया दत्ता शिवाय सा । एवं ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि
अथ षट्सप्ततितमोऽध्यायः नन्द उवाच येषां च दर्शने पुण्यं पापं यस्य च दर्शने । तत्सर्व वद सर्वेश श्रोतुं कौतूहरं मम
श्रीभगवानुवाच सुब्राह्मणानां तीर्थानां वैष्णवानां च दर्शने । देवताप्रतिमादर्शी तीर्थस्नायी भवेन्नरः
सूर्यस्य दर्शने भक्त्या मतीनां दर्शने तथाः । संन्यासिनां यतीनां च तथैव ब्रह्मचारिणाम्
भक्त्या गवां च वह्नीनां गुरूणां च विशेषतः । गजेन्द्राणां च सिंहानां श्वेताश्वानां तथैव च
शुकानां च पिकानां च खञ्जनानां तथैव च । हंसानां च मयूराणां चाषाणां शङ्खपक्षिणाम्
वत्सप्रयुक्तधेनूनासश्वत्थानां तथैव च । पतिपुत्रवतीनां च नराणां तीन्थयायिनाम्
प्रदीपानां सुवर्णानां मणीनां च विशेषतः । णुक्तानां हीरकाणां च माणिक्यानां महाशय
तुलसीशुक्लपुष्पाणां दर्शनं पापनाशम् । फलानि शुक्लधान्यानि घृतं दधि मधूनि च
पूर्णकुम्भं च लाजांश्च राजेन्द्रं दर्पणं जलम् । मालां च शुक्लपुष्पाणां दृष्ट्वा पुण्यं लभेन्नरः
गोरोचनं च कर्पूरं रजतं च सरोवरम् । पुष्पोद्यानं पुष्पितां च दृष्ट्वा पुण्यं लभेन्नरः
शुक्लपक्षस्य चन्द्रं च पीयूषं चन्दनं तथा । कस्तूरीं कुङ्कुमं दृष्ट्वा नन्द पुण्यं
पताकामक्षयवटं तरुं देवोत्थितं शुभम् । देवालयं देवखातं दृष्ट्वा पुण्यं लभेन्नरः
देवाक्षितां देवद्यटं सुगन्धिपवनं तथा । शङ्खं च दुंदुभिं दृष्ट्वा सद्यः पुण्यं लभेन्नरः
शुकिंत प्रवालं रजतं स्फटिकं कुशमूलकम् । गङ्गामृदं कुशं ताम्रं दृष्ट्वा पुण्यं लभेन्नरः
पुराणपुस्तकं शुद्धं सबीजं विष्णुयन्त्रकम् । स्निग्धदूर्वाक्षते रत्नं दृष्ट्वा पुण्यं लभेन्नरः
तपस्विनां सिद्धमन्त्रं मसुद्रं कृष्णसारकम् । यज्ञं महोत्सवं दृष्ट्वा स पुण्यं लभते नरः
गोमूत्रं गोमयं दुग्धं गोधूलिं गोष्ठगोष्पदम् । पक्वसस्यान्वितं क्षेत्रं दृष्ट्वा पुण्यं लभेद्ध्रुवम्
रुचिरां पद्मिनीं श्यामां न्यग्रोधपरिमण्डलाम् । सुवेषकां सुवसनां दिव्यभूषणभूषिताम्
वेश्यां क्षेमकरीं गन्धं सुदूर्वाक्षततण्डुलम् । सिद्धान्नं परमान्नं च दृष्ट्वा पुण्यं लभेन्नरः
कान्तिक्यां पूर्णिमायां च राधिकाप्रतिमां शुभाम् । संपूज्य दृष्ट्वा नत्वा च करोति जन्मखण्डनम्