परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने । कूष्माण्डघातिका या स्त्री दीवनिर्वाणकः पुमान्
सप्तजन्म भवेद्रोगी दरिद्रो जन्मजन्मनि । प्रदीपं शिवलिङ्गंच शालग्रामं मणिंतथा
प्रतिमां यज्ञसूत्रं च सुवर्ण शङ्खमेव च । हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम्
शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः । दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः
भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः । अन्धः पङ्गुर्वा खर्वश्च खञ्जश्चैवाङ्गहीनकः
भवेत्कमेण पापी स ह्येतान्भूमौ त्यजेतु यः । दिवसे संध्ययोर्निद्रां स्त्रीसंभोगं करोति यः
सप्तजन्म भवेद्रोगी दरिद्रः सप्तजन्मसु । उदिते जगतीनाथे यः कुर्याद्दन्तधावनम्
स पापिष्ठः कथं ब्रूते पूजयामि जनार्दनम् । मृद्भस्मगोसकृत्विण्डैस्तथा बालुकयाऽपि वा
कृत्वा लिङ्कं सकृत्पूजय वसेत्कल्पशतं दिवि । सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम्
लक्षं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् । जीवन्मुक्तो भवेद्विप्रो लिङ्गमभ्यर्चयेतु यः
शिवपूजाविहीनश्च ब्राह्मणो नरकं व्रजेत् । मत्पूजितं प्रियतमं शिवं निन्दन्ति ये नराः
पच्यन्ते निरये तावद्यावद्वै ब्रह्मणः शतम् । पूजिते शिवलिङ्गे च यदि स्यात्केशवालुका
स महान्धो वालुकया केशेन यवनो भवेत् । क्षुद्रो दरिद्रः कृपणो व्याधिः स्यात्कुत्सिते यथा
सर्वेभ्यो मानहानिः स्याज्जायते नीचयोनिषु । सर्वेषु प्रियपात्रेषु ब्रह्मणश्च मम प्रियः
ब्रह्मणाच्च प्रिया लक्ष्मीः सततं वक्षसि स्थिता । ततोऽधिका प्रिया राधा प्रिया भक्तास्ततोऽधिकाः
ततोऽधिकः शंकरो मे नास्ति मे शंकरात्प्रियः । महादेव महादेव महादेवेति वादिरः
पश्चाद्यामि च संतृप्तो नामश्रवणलोभतः । मनो मे भक्तमूले च प्राणा राधात्मका ध्रुवम्
आत्मा मे शंकरस्थानं शिवः प्राणाधिकश्च यः । आद्या नारायणी शक्तिः सृष्टिस्थित्यन्तकानिणी
कनोमि च यथा सृष्टिं यया ब्रह्मादिदेवताः । यया जयति विश्वं च यया सृष्टिःप्रजायते
यया विना जगन्नाश्ति मया दत्ता शिवाय सा । दया निद्रा च क्षुत्तृप्तिस्तृष्ण श्रद्धा क्षमा धृतिः
तुष्टिः पुष्टिस्तथा शान्तिर्लज्जाधिदेवता हि सा । वैसुण्ठे सा महालक्ष्मीर्गोलोके राधिका सती
मर्त्ये लक्ष्मीश्च क्षीरोदे दक्षकन्या सती य सा । सा दुर्गा मेनकाकन्या दैत्यदुर्गतिनाशिनी
स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे । सा वाणी सा च सावित्री विद्याधिष्ठातृदेवता
वह्नौ स दाहिकाशक्तिः प्रभाशक्तिश्च भास्करे । शोभाशक्तिः पूर्णचन्द्रे जले शक्तिश्च शीतता
सस्यप्रसूता शक्तिश्च धारणा च धरासु सा । ब्राह्मण्यशक्तिर्विप्रेषु देवशक्तिःसुरेषु सा
तपस्विनां तपस्या का गृहिणां गृहदेवता । मुक्तिशक्तिश्च मुक्तानामाशा सांसारिकस्य सा
मद्भक्तानां भक्तिशक्तिर्मयि भक्तिप्रदा सदा । नृपाणां राज्यलक्ष्मीश्च वणिजां लभ्यरूपिणी
परि संसारसिन्धूनां त्रयीतत्त्वा तु तारिणी । सत्सु सद्बुद्धिरूपा सा मेधाशक्तिस्वरूपिणी
व्याख्याशक्तिः श्रुतौ शास्त्रे दातृशक्तिश्च दातृषु । क्षत्त्रादीनां विप्रभक्तिः पतिभक्तिः सतीसु च
एवं रूपा च या शक्तिर्मया दत्ता शिवाय सा । एवं ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि