एकादशीं ये कुर्वन्ति कृष्णजन्माष्टमीव्रतम् । शतजन्मकृतात्पापान्मुच्यन्ते नात्र संशयः
यद्बालये यच्च कौमारे वार्धके यच्च यौवने । भस्मीभूतानि कुर्वन्ति पातकानि कृतानि च
एकादशीदिने भुङ्क्ते कृष्णजन्माष्टमीव्रते । त्रैलोक्यजनितं पापं सोऽपि भुङ्क्ते न संशयः
आतुरे नियमो न स्यादपि वृद्धे च बालके । भक्तस्य द्विगुणं दत्त्वा ब्राह्मणाय शुचिर्भवेत्
यो भुङ्क्ते शिवरात्रौ च श्रीरामनवमीदिने । उपवासे समर्थश्च स महारौरवं व्रजेत्
कुहूपूर्णेन्दुसंक्रान्तिचतुर्दश्यष्टमीषु च । नरश्चाण्डालयोनिः स्यात्स्त्रीतैलमांससेवनात्
मत्स्यं मांसं मसूरं च कांस्यपात्रे च भोजनम् । आर्द्रकं रक्तशाकं च रवौ च परिवर्जयेत्
अन्यथा नरकं याति कुम्भीपाकं न संशयः । रजस्वरान्नं वेश्यान्नं मदिरान्नं व्रजेश्वर
यो भुङ्क्ते ब्राङ्मणो दैवाद्विड्भोजी स भवेद्ध्रुवम् । यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्
स भवेदशुचिर्नित्यं भस्मान्तं तस्य सूतकम् । नारी वेश्या प्रतिज्ञेया चतुष्पुरुषगामिनी
पाके च पितृदेवानामधिकारो न तद्भवेत् । यद्ग्रामयाजिनामन्नं शूद्रश्राद्धान्नभोजनम्
भुक्त्वा च नरकं याति यावच्चन्द्रदिवाकरौ । शूद्राणां श्राद्धदिवसे तदन्नं भुञ्जते द्धिजाः
कुम्भीपाके च पच्यन्ते यावद्वै ब्रह्मणः शतम् । यः शूद्रेणाभ्यनुज्ञातो भुङ्क्ते श्राद्धदिनेऽन्यतः
सुरापीति स विज्ञेयः सर्वधर्मबहिष्कृतः । असिजीवी मषीजीवी देवलो वृषवाहकः
शूद्राणां शवदाही च यो हि शूद्रापतिद्धिजः । स शूद्रवद्वहिष्कार्यस्तदन्नं विट्समं सताम्
नोपतिष्ठति यः पूर्वां नोपास्ते यस्तु पश्चिमाम् । स शूद्रवद्बहिष्कार्यः सवंस्माद्द्विजकर्मणः ।। ७० संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदह्नाकुरुते कर्म न तस्य फलभाग्भवेत्
वाममन्त्रोपासकश्च ब्राह्माणो नरकं व्रजेत् । नदीगर्भे च गर्ते च दृक्षमूले जलान्तिके
देवान्तिके सस्यभूमौ पुरीषं नोत्सृजेद्बुधः । वल्मीकमूषकोत्खातां मृदमन्तर्जलां तथा
शौचावशिष्टां गेहाच्च नाऽऽदद्याल्लेपसंभवाम् । अन्तःप्राणिपिपील्यां च हलोत्खातां व्रजेश्वर
आलवालोत्थितां चैव सस्यक्षेत्रोत्थितां तथा । वृक्षमूलोत्थितां नन्द नदीगर्भोत्थितां तथा
परित्यजेन्मृदस्त्वेताः सकलाः शौचसाधने । कूष्माण्डघातिका या स्त्री दीवनिर्वाणकः पुमान्
सप्तजन्म भवेद्रोगी दरिद्रो जन्मजन्मनि । प्रदीपं शिवलिङ्गंच शालग्रामं मणिंतथा
प्रतिमां यज्ञसूत्रं च सुवर्ण शङ्खमेव च । हीरकं च तथा मुक्तां गोमूत्रं गोमयं घृतम्
शालग्रामशिलातोयं भूमौ त्यक्त्वा व्रजेदधः । दरिद्रः कृपणः कुष्ठी वंशहीनोऽप्यभार्यकः
भूमिहीनः प्रजाहीनो बन्धुहीनश्च कुत्सितः । अन्धः पङ्गुर्वा खर्वश्च खञ्जश्चैवाङ्गहीनकः
भवेत्कमेण पापी स ह्येतान्भूमौ त्यजेतु यः । दिवसे संध्ययोर्निद्रां स्त्रीसंभोगं करोति यः
सप्तजन्म भवेद्रोगी दरिद्रः सप्तजन्मसु । उदिते जगतीनाथे यः कुर्याद्दन्तधावनम्
स पापिष्ठः कथं ब्रूते पूजयामि जनार्दनम् । मृद्भस्मगोसकृत्विण्डैस्तथा बालुकयाऽपि वा
कृत्वा लिङ्कं सकृत्पूजय वसेत्कल्पशतं दिवि । सहस्रपूजनात्सोऽपि लभते वाञ्छितं फलम्
लक्षं च पूजयेद्यस्तु शिवत्वं लभते ध्रुवम् । जीवन्मुक्तो भवेद्विप्रो लिङ्गमभ्यर्चयेतु यः