स्पृष्ट्वा स्नानादिकं काले कुर्यात्साधकसत्तमः
समुद्धृत्य पञ्चपिण्डानादौ धर्मी विचक्षणः
कुर्य्यात्स्नात्वा तु सङ्कल्पं ततः स्नानं पुनर्मुने
सङ्कल्पो गृहिणां चैव कृतपातकनाशकः 1.26.
वेदोक्तमन्त्रेणानेन देहशुद्धिकृते नरः
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम्
आरुह्य मम गात्राणि सर्वं पापं प्रमोचय
इत्युक्त्वा च जले नाभिप्रमाणे मन्त्रपूर्वकम्
तीर्थान्यावाहयेत्तत्र हस्तं दत्त्वा तपोधन
गङ्गे च यमुने चैव गोदावरि सरस्वति
नलिनी नन्दिनी सीता मालिनी च महापगा
पद्मावती भोगवती स्वर्णरेखा च कौशिकी
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती 1.26.
अहल्या चादितिः संज्ञा स्वधा स्वाहाऽप्यरुन्धती
स्नात्वा स्नात्वा महापूतः कुर्य्यात्तु तिलक बुधः
स्नानं दानं तपो होमो देवतापितृकर्म च
ब्राह्मणस्तिलकं कृत्वा कुर्य्यात्सन्ध्यां च तर्पणम्
प्रक्षाल्य पादौ यत्नेन धृत्वा धौते च वाससी
विना पादक्षालनं यः स्नात्वा विशति मन्दिरम्
परिधाय स्निग्धवस्त्रं गृहं च प्रविशेद्गृही
जङ्घोर्ध्वतश्च यो विप्रः पादौ प्रक्षालयेद्यदा
उपविश्यासने ब्रह्मञ्छुचिराचम्य साधकः
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले 1.26.
सर्वेषु शस्ता पूजा च शालग्रामे च नारद
स स्नातः सर्वतीर्थेषु सर्वयज्ञेषु दीक्षितः
शालग्रामजलं भक्त्या नित्यमश्नाति यो नरः
शालग्रामशिलाचक्रं यत्र तिष्ठति नारद
तत्र यो हि मृतो देही ज्ञानाज्ञानेन दैवतः
शालग्रामं विनाऽन्यत्र कः साधुः पूजयेद्धरिम्