जलस्थं च रविं चन्द्रं दृष्ट्वा शोकं लभेन्नरः । बन्धुविच्छेदहेतुं च न पश्येत्परमैथुनम्
एकत्र शयनं स्थानं भोजनं च गतिं तथा । न कुर्यात्पापिना सार्धं सर्वं नाशस्य लक्षणम्
आलापाद्गात्रसंस्पर्शाच्छयनाश्रयभोजनात् । संचरन्ति ध्रुवं पापास्तैलविन्दुरिवाम्भसा
हिंस्रजन्तुसमीपं च न गच्छेद्दुःखकारणम् । खलेन सार्ध मिलनं न कुर्याच्छोककारणम्
ब्राह्मणानां गवां चैव वैष्णवानां विशेषतः । न कुर्याद्धिंसनं हानिं सर्वनाशस्य कारणम्
देवदेवलविप्राणां वैष्णवानां तथैव च । वित्तं धनं च नहरेत्सर्वनाशस्य कारणम्
स्वदत्तं परदत्तं वा ब्रह्मवित्तं हरेत्तु यः । षष्टिवर्षसहस्राणि विष्ठायां जायते कृमिः
गृध्रः कोटिसहस्राणि शतजन्मानि सूकरः । श्वापदः शतजन्मानि गण्डकः सप्तजन्मनि
घोटकः सप्तजन्मानि कुम्भीरः पञ्चजन्मसु । पुंश्चलीनां योनिकीटं शतजन्मसु निश्चितम्
व्रणकीटं च तेषां शतजन्मसु नारद । गोधिका सप्तजन्मानि गर्दभः सप्तजन्मसु
सप्तजन्मानि मार्जारो नकुलश्त्रेषु जन्मसु । उच्चैःश्रवा जन्मशतं खरश्चापि तथैव च
क्रूरसर्पश्च शार्दूलो महिषः सप्तजन्मसु । भेकश्च शतजन्मानि च्छागलः सप्तजन्मसु
भल्लूकः शतजन्मानि शृगालो लक्षजन्मसु । ततो जलौका भवति ब्रह्मस्वहरणाद्ध्रुवम्
कुम्भीपाके च पच्यन्ते पापिनो ब्रह्मणः शतम् । दक्षिणां विप्रमुद्दिश्य तत्कालं चैन्न दीयते
एकरात्रे व्यतीते तु तद्दानं द्विगुणं भवेत् । मासे शतगुणं प्रोक्तं द्विमासे तु सहस्रकम्
संवत्सरे व्यतीते तु स दाता नरकं व्रजेत् । दात्रा न दीयते मूर्खो ग्रहीता च न याचते
उभौ तौ नरकं यातो दाता व्याधियुतो भवेत् । विप्राणां हिसनं कृत्वा वंशहानिं लभेद्ध्रुवम्
धनं लक्ष्मीं परित्यज्य भिक्षुकश्च भवेद्व्रजन् । देवं च ब्रह्मणं दृष्ट्वा न नमेद्यो लभेच्छुचम्
न कुर्याद्गुरुभक्तिं यो लभते रौरवं शुचम् । य स्त्री मूढा दुराचारा स्वपतिं हरिरूपिणम्
न पश्येत्तर्जनं कृत्वा कुम्भीपाके व्रजेद्ध्रुवम् । वाक्तर्जनाद्भवेत्काको हिंसनात्सूकरो भवेत्
सर्पो भवति कोपैन दर्पेण गर्दभो भवेत् । कुक्कुरी च कुवाक्येनाप्यन्धश्च विषदर्शनात्
पतिव्रता च वैकुण्ठं पत्या सह व्रजेद्ध्रुवम् । शिवं दुर्गां गणपतिं सूर्य विप्रं च वैष्णवम्
विष्णुं निन्दति यो मूढः स महारौरवं व्रजेत् । पितरं मातरं पुत्रं सतीं भार्यां गुरुं तथा
अनाथां भगिनीं कन्यां विनिन्द्य नरकं व्रजेत् । विप्रभक्तिविहीनाश्च क्षत्रविट्शूद्रयोनिजा
हरिभक्तिविहीनाश्च पच्यन्ते नरमे ध्रुवम् । पतिभक्तिविहीनाश्च युवत्यश्च नराधमाः
शालग्रामजलं विष्णुप्रसादं ये च भुञ्जते । तीर्य पुनन्ति ते विप्राः शतं पुंसां वसुंधराम्
पितृन्देवान्समम्यर्च्य खादन्मासं द्विजः शुचिः । यो भक्षति वृथा मांसं स महारौरवं व्रजेत्
मत्स्यांश्च कामतो जग्ध्वा चोपवासं वसेद्द्विजः । प्रायश्चित्तं ततः कुर्याद्व्रतं चान्द्रायणं चरेत्
कामतो ब्राह्मणो मत्स्यं भुङ्क्ते यो ज्ञानदुर्बलः । सोऽशुचिः सततं नन्द हन्ति पुण्यं पुराकृतम्
विष्णोरुच्चिष्टभोजी यो मत्स्यं मांसं न खादति । पदे पदेऽश्वमेधस्य लभते निश्चितं फलम्