पुत्रबुद्धिं परित्यज्य भज मां ब्रह्मरूपिणम् । छित्तवा च ब्रह्मनिगडं गोलोकं तद्व्रज स्वयम्
कथयस्व यशोदां च गोपीं गोपगणां व्रज । तैश्च सर्वैर्जनैः शोकं त्यज स्वमन्दिरं व्रज
इत्येवमुक्त्वा भगवान्विरराम च संसदि । पप्रच्छ पुनरेवं तं नन्दश्चाऽऽनन्दसंप्लुतः
नन्द उवाच वद सांसारिकं ज्ञानं येन यास्यामि त्वत्पदम् । मूढोऽहं परमानन्द श्रुतीनां जनको भवान्
नन्दस्य वचनं श्रुत्वा सर्वज्ञो भगवान्स्वयम् । आह्निकं कथयायास श्रुतिभिर्न श्रुतं हि यत्
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo भगवन्नन्दसंवादे चतुः सप्ततितमोऽध्यायः
अथ पञ्चसप्ततितमोऽध्यायः श्रीभगवानुवाच शृणु नन्द प्रवक्ष्यामि ज्ञानं च परमाद्भुतम् । सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम्
न विश्वासो हि नारीषु संततं कुलटासु च । मोक्षमार्गार्गलास्वेव भ्रममायास्वमूषु च
हरिभक्तेरसाध्वीनां विरुद्धासु युतासु च । बीजरूपासु नाशानां प्रमदासु व्रजेश्वर
नित्यं च प्रातरुत्थाय रात्रिवासो विहाय च । अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गृरुं परम्
विचिन्त्य मनसा प्रातःकृत्यं कृत्वा सुनिश्चितम् । स्नानं करोति सुप्राज्ञो निर्मलेषु जलेषु च
न संकल्पं च कुरुते भक्तः कर्मनिकृन्तनः । स्नात्वा हरिं स्मरेत्संध्यां कृत्वा याति गृहं प्रति
प्रक्षाल्य पादौ प्रविशेन्निधाय धौतवाससी । पूजयोत्परमात्मानं मामेव मुक्तिकारणम्
शालग्रामे मणौ यन्त्रे प्रतिमायां जलेऽपि च । तथा च विप्रे गवि च गुरुष्वेवं विशेषतः
घटिऽष्टदलपद्मे च पात्रे चन्दननिर्मिते । आवाहनं च सर्वत्र शालग्रामे जलेन च
मन्त्रानुरूपध्यानेन ध्यात्वा मां पूजयेद्व्रती । षोडशोपचारद्रव्याणि दद्यान्मूलेन भक्तितः
श्रीदामानं मुदामानं वसुदामानमेव च । वीरभानुं शूरभानुं गोपान्पञ्च प्रपूजयेत्
सुनन्दनन्दकुमुदं पार्षदं मे सुदर्शनम् । लक्ष्मीं सरस्वतीं दुर्गां राधां गङ्गां वसुंधराम्
गुरुं च तुलसीं शंभुं कार्तिकेयं विनायकम् । नवग्रहांश्च दिक्पालान्परितः पूजयेत्सुधीः
देवषट्कं च संपूज्य सर्वादौ विघ्नविघ्नतः । गणेशं च दिनेशं च वह्निं विष्णुं शिवं शिवम्
श्रुतौ विनिर्मितान्देवान्मोक्षदान्कर्मकृन्तनान् । गणेशं विघ्ननाशाय सूर्यं व्याधिविनाशिने
वह्निं प्राप्तिनिमित्तेन शान्तौ शुद्धौ भवेद्ध्रुवम् । विष्णुं मोक्षनिमित्तेन ज्ञानदानाय शंकरम्
बुद्धिमुक्तिनिमित्तेन पार्वतीं पूजयेत्सुधीः । पुष्पाञ्जलित्रयं दत्त्वा स्वस्तोत्रं कवचं पठेत्
गुरुं प्रणम्य संपूज्य तत्पश्चात्प्रणमेत्सुरम् । कृत्वाऽऽह्रिकं च संपूज्य यथासुखमुदीरितम्
समाचरेत्स्वकर्मैतद्वेदोक्तं स्वात्मशुद्धये । विष्ठां न पश्येत्प्राज्ञश्च व्याधिबीजस्वरूपिणीम्
मूत्रं च व्याधिबीजं च परं नरककारणम् । लिङ्गंयोनिं पापदुःखव्याधिदारिद्र्यदायिनीम्
उरुं मुखं स्तनं स्त्रीणां कटाक्षं हास्यमेव च । विनाशबीजं रूपं च विपदां कारणं सदा
दिवाभोगं च स्वस्त्रीणां स्वालापं परिवर्जयेत् । रोगाणो कारणं चैव चक्षुषोः कर्णयोस्तथा
एकतारं च गगनं न पश्येत्तु रुजां भयात् । दैवाद्दृष्ट्वा हरिं स्मृत्वा सप्तधा नारदं जपेत्
अस्तकाले रविं चन्द्रं न पश्येद् व्याधिकारणम् । खण्डं मसुदितं चन्द्रं न पश्येद् व्याधिकारणम्