भुवो भारावतरणो निर्गुणः प्रकृतेः परः । परात्पनस्तु भगवान्ब्रह्मेशशेषवन्दितः
तुष्टो नन्दस्तवं श्रुत्वा तमुवाच जगत्पतिः । आगच्छन्तं गोकुलाच्च विरहज्वरकातरम्
श्रीभगवानुवाच गच्छ नन्दव्रजं नन्द त्यज शोकं भ्रमं भुवि । शृणु सत्यं परं ज्ञानं शोकग्रन्थिनिकृन्तनम्
वायुश्च भूमिराकाशो जलं तेजश्च पञ्चमम् । उक्तः श्रुतिगणैरेतैः पञ्चभूतैश्च नित्यशः
सर्वैषां देहिनां तात देहश्च पाञ्चभौतिकः । मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः
देहं गृह्णन्ति सर्वैषां पञ्चभूतानि नित्यशः । मायासंकेतरूपं तदभिज्ञानं भ्रमात्मकम्
को वा कस्य सुनस्तात का स्त्री कस्य पतिस्तु वा । कर्मणा भ्रमणं शश्वत्सर्वेषां भूरिजन्मनि
कर्मणा जायन्ते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकं कर्मणा च प्रपद्यते
केषां वा जन्म स्वर्गेषु केषां वा ब्रह्मणो गृहे । केषां विप्रेषु क्षत्रेषु केषां वा बैश्यशूद्रयोः
अतिनीचेषु केषां वा केषां कृमिषु विट्सु च । पशुपक्षिषु केषां वा केषां वा क्षुद्रजन्तुषु
पुनः पुनर्भ्रमन्त्येव सर्वे तात स्वकर्मणा । करोति कर्म निर्मूलं मद्भक्तो मत्पियः सदा
सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । पञ्चविंशत्सहस्राणां युगान्ते निधनं मनोः
मनोः समं महेन्द्रस्य परमायुर्विनिर्मितम् । चतुर्दशेन्द्रविच्छित्तौ ब्रह्मणो दिनमुच्यते
एवं परिमिता रात्रिः कालविद्भर्विनिर्मिता । एवं परिमिता मासा वर्षं च परिनिश्चितम्
ब्रह्मणश्च वर्षशतं परमायुर्विनिर्मितम् । निमेषमात्रं कालोऽयं ब्रह्मणो निधने मम
ब्रह्मादितृणपर्यन्तं सर्वं विश्वे विनिर्मितम् । सत्योऽहं परमात्मा च भक्तानुग्रहविग्रहः
मन्मन्त्रोपासकः सत्यो देहं त्यक्त्वा धरासु च । यास्यत्येव हि गोलोकं छित्वा कर्म पुरातनम्
असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम् । गृह्णति नित्यं स्वं देहं जन्ममृत्युजरापहम्
न नन्द मम भक्तानामशुभं विद्यते क्वचित् । नित्यं सुदर्शनं तं च परिरक्षति मर्वतः
मत्तो हि बलवान्भक्तश्चिन्तितोऽहं न चिन्तितः । अहं स्वामी च तस्यैव न मे स्वामी पिता प्रसूः
पुत्रबुद्धिं परित्यज्य भज मां ब्रह्मरूपिणम् । छित्तवा च ब्रह्मनिगडं गोलोकं तद्व्रज स्वयम्
कथयस्व यशोदां च गोपीं गोपगणां व्रज । तैश्च सर्वैर्जनैः शोकं त्यज स्वमन्दिरं व्रज
इत्येवमुक्त्वा भगवान्विरराम च संसदि । पप्रच्छ पुनरेवं तं नन्दश्चाऽऽनन्दसंप्लुतः
नन्द उवाच वद सांसारिकं ज्ञानं येन यास्यामि त्वत्पदम् । मूढोऽहं परमानन्द श्रुतीनां जनको भवान्
नन्दस्य वचनं श्रुत्वा सर्वज्ञो भगवान्स्वयम् । आह्निकं कथयायास श्रुतिभिर्न श्रुतं हि यत्
इतिo श्रीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारादनाo भगवन्नन्दसंवादे चतुः सप्ततितमोऽध्यायः
अथ पञ्चसप्ततितमोऽध्यायः श्रीभगवानुवाच शृणु नन्द प्रवक्ष्यामि ज्ञानं च परमाद्भुतम् । सुगोपनीयं वेदेषु पुराणेषु च दुर्लभम्
न विश्वासो हि नारीषु संततं कुलटासु च । मोक्षमार्गार्गलास्वेव भ्रममायास्वमूषु च
हरिभक्तेरसाध्वीनां विरुद्धासु युतासु च । बीजरूपासु नाशानां प्रमदासु व्रजेश्वर
नित्यं च प्रातरुत्थाय रात्रिवासो विहाय च । अभीष्टदेवं हृत्पद्मे ब्रह्मरन्ध्रे गृरुं परम्