सर्वकारणरूपोऽहं न च मत्कारणं परम् । सर्वेशीऽहं न मेऽपीशो ह्यहं कारणकारणम्
सर्वेषां सर्वबीजानां प्रवदन्ति मनीषिणः । मन्मायामोहितजना मां न जानन्ति पापिनः
पापग्रस्तेन दुर्बुद्ध्या विधिना वञ्चितेन च । स्वात्माऽहं सर्वजन्तूनां स्वाम्यहं नादृतः स्वयम्
यत्राहं शक्तयस्तत्र क्षुत्पिपासादयस्तथा । गते मयि तथा यान्ति नरदेहे (वे) यथाऽनुगाः
हे व्रजेश नन्द तात ज्ञानं ज्ञात्वा व्रजं व्रज । कथयस्व च तां राधां यशोदां ज्ञानमेव च
ज्ञात्वा ज्ञानं व्रजेशश्च जगाम स्वानुगैः सह । गत्वा च कथयामास ते द्वे च योषितां वरे
ते च सर्वे जहः शोकं महाज्ञानेन नारद । कृष्णो यद्यपि निर्लिप्तो मायेशो मायया रतः
यशोदया प्रेरितश्च पुनरागत्य माधवम् । तुष्टाव परमानन्दं नन्दश्च नन्दनन्दनम्
सामवेदोक्तस्तोत्रेण कृतेन ब्रह्मणा पुरा । पुत्रस्य पुरतः स्थित्वा रुरोद च पुनः पुनः
अथ चतुःसप्ततितमोऽध्यायः नारायण उवाच श्रीकृष्णः परमानन्दः परिपूर्णतमः प्रभुः । परमात्मा च परमो भक्तानुग्रहकारकः
भुवो भारावतरणो निर्गुणः प्रकृतेः परः । परात्पनस्तु भगवान्ब्रह्मेशशेषवन्दितः
तुष्टो नन्दस्तवं श्रुत्वा तमुवाच जगत्पतिः । आगच्छन्तं गोकुलाच्च विरहज्वरकातरम्
श्रीभगवानुवाच गच्छ नन्दव्रजं नन्द त्यज शोकं भ्रमं भुवि । शृणु सत्यं परं ज्ञानं शोकग्रन्थिनिकृन्तनम्
वायुश्च भूमिराकाशो जलं तेजश्च पञ्चमम् । उक्तः श्रुतिगणैरेतैः पञ्चभूतैश्च नित्यशः
सर्वैषां देहिनां तात देहश्च पाञ्चभौतिकः । मिथ्याभ्रमः कृत्रिमश्च स्वप्नवन्माययाऽन्वितः
देहं गृह्णन्ति सर्वैषां पञ्चभूतानि नित्यशः । मायासंकेतरूपं तदभिज्ञानं भ्रमात्मकम्
को वा कस्य सुनस्तात का स्त्री कस्य पतिस्तु वा । कर्मणा भ्रमणं शश्वत्सर्वेषां भूरिजन्मनि
कर्मणा जायन्ते जन्तुः कर्मणैव प्रलीयते । सुखं दुःखं भयं शोकं कर्मणा च प्रपद्यते
केषां वा जन्म स्वर्गेषु केषां वा ब्रह्मणो गृहे । केषां विप्रेषु क्षत्रेषु केषां वा बैश्यशूद्रयोः
अतिनीचेषु केषां वा केषां कृमिषु विट्सु च । पशुपक्षिषु केषां वा केषां वा क्षुद्रजन्तुषु
पुनः पुनर्भ्रमन्त्येव सर्वे तात स्वकर्मणा । करोति कर्म निर्मूलं मद्भक्तो मत्पियः सदा
सत्यं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् । पञ्चविंशत्सहस्राणां युगान्ते निधनं मनोः
मनोः समं महेन्द्रस्य परमायुर्विनिर्मितम् । चतुर्दशेन्द्रविच्छित्तौ ब्रह्मणो दिनमुच्यते
एवं परिमिता रात्रिः कालविद्भर्विनिर्मिता । एवं परिमिता मासा वर्षं च परिनिश्चितम्
ब्रह्मणश्च वर्षशतं परमायुर्विनिर्मितम् । निमेषमात्रं कालोऽयं ब्रह्मणो निधने मम
ब्रह्मादितृणपर्यन्तं सर्वं विश्वे विनिर्मितम् । सत्योऽहं परमात्मा च भक्तानुग्रहविग्रहः
मन्मन्त्रोपासकः सत्यो देहं त्यक्त्वा धरासु च । यास्यत्येव हि गोलोकं छित्वा कर्म पुरातनम्
असंख्यब्रह्मणां पाते न भवेत्तस्य पातनम् । गृह्णति नित्यं स्वं देहं जन्ममृत्युजरापहम्
न नन्द मम भक्तानामशुभं विद्यते क्वचित् । नित्यं सुदर्शनं तं च परिरक्षति मर्वतः
मत्तो हि बलवान्भक्तश्चिन्तितोऽहं न चिन्तितः । अहं स्वामी च तस्यैव न मे स्वामी पिता प्रसूः