अश्वत्थः फलिनामेव गुरूणां मन्त्रदः स्वयम् । कश्यपश्च प्रजेशानां गरुडः पक्षिणां तथा
अनन्तोऽहं च नागानां नराणां च नराधिपः । ब्रह्मर्षीणां भृगुरहं देवर्षीणां च नारदः
राजर्षीणां च जनको महर्षीणां शुकस्तथा । गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनीः
बृहस्पतिर्बुद्धिमतां कवीनां शुक्र एव च । ग्रहाणां च शनिरहं विश्वकर्मा च शिल्पिनाम्
मृगाणां च मृगेन्दोऽहं वृषाणां शिववाहनम् । ऐरावतो गजेन्द्राणां गायत्री छन्दसामहम्
वेदाश्च सर्वशास्त्राणां वरुणो यादसामहम् । उर्वश्यप्सरसामेव समुद्राणां जलार्णवः
सुमेरुः पर्वतानां च रत्नवत्सु हिमालयः । दुर्गा च प्रकृतीनां च देवीनां कमलालया
शतरूपा च नारीणां मत्प्रियाणां च राधिका । साध्वीनामपि सावित्री वेदमाता च निश्चितम्
प्रह्लादश्चापि दैत्यानां बलिष्ठानां बलिः स्वयाम् । नारायणर्षिर्भगवाञ्ज्ञानिनां मध्य एव च
हनूमान्वानराणां च पाण्डवानां धनंजयः । मनसा नागकन्यानां वसूनां द्रोण एव च
द्रोणो जलधराणां च वर्षाणां भारतं तथा । कामिनां कामदेवोऽहं रम्भा च कामुकीषु च
गोलोकश्चास्मि लोकानासुत्तमः सर्वतः परः । मातृकासु शान्तिरहं रतिश्च सुन्दरीषु च
धर्मोऽहं साक्षिणां मध्ये संध्या च वासरेषु च । देवेष्वहं च माहेन्दो राक्षसेषु विभीषणः
कालाग्निरुद्रो रुद्राणां संहारो भैरवेषु च । शङ्खेषु पाञ्चजन्योऽहमङ्गेष्वपि च मस्तकः
परं पुराणसूत्रेषु चाहं भागवतं वरम् । भारतं चेतिहासेषु पञ्चरात्रेषु कापिलम्
स्वायंभुवो मनूनां च मुनीनां व्यासदेवकः । स्वधाऽहं पितृपत्नीषु स्वाहा वङ्निप्रियासु च
यज्ञानां नाजसूयोऽहं यज्ञपत्नीषु दक्षिणा । शस्त्रास्त्रज्ञेषु रामोऽहं जमदग्निसुतो महान्
पौराणिकेषु सूतोऽहं नीतिमत्स्वङ्गिरा मुनिः । विष्णुव्रतं व्रतानां च बलानां दैवमेव च
ओषधीनामहं दूर्वा तृणानां कुशमेव च । धर्मकर्मसु सत्यं च स्नेहपात्रेषु पुत्रकः
अहं व्याधिश्च शत्रूणां ज्वरो व्याधिष्वहं तथा । मद्भक्तिष्वपि मद्दास्यं वरेषु च वरः स्मृतः
आश्रमाणां गृहस्थोऽहं संन्यासी च विवेकिनाम् । सुदर्शनं च शस्त्राणां कुशलं च शुभाशिषाम्
एश्वर्याणां महाज्ञानं वैराग्यं च सुखेष्वहम् । मि (इ) ष्टवाक्यं प्रीतिदेषु दानेषु चाऽऽत्मदानकम्
संचयेषु धर्मकर्म कर्मणां च मदर्चनम् । कठोरेषु तपश्चाहं फलेषु मोक्ष एव च
अष्टसिद्धिषु प्राकाम्यमहं काशीपुरीषु च । नगरेषु तथा काञ्ची स देशो यत्र वैष्णवः
सर्वाधारेषु स्थूलेषु अहमेव महान्विराट् । परमाणुरहं विश्वे महासूक्ष्मेषु नित्यशः
वैद्यानामश्विनीपुत्रौ जौषधीषु रसायनम् । धन्वन्तरीर्मन्त्रविदां विषादः क्षयकारिणाम्
रागाणां मेघमल्लारः कामोदस्तत्प्रियासु च । मत्पार्षदेषु श्रीदामा मद्वन्वुष्वहमुद्धवः
पशुजन्तुषु गौश्चहं चन्दनं काननेषु च । तीर्थपूतश्च पूतेषु निःशङ्केषु च वैष्णवः
न वैष्णवात्परः प्राणी मन्मन्त्रोपासकश्च यः । वृक्षेष्वङ्कुररूपोऽहमाकारः सर्ववस्तुषु
अहं च सर्वभूतेषु मयि सर्वे च संततम् । यथा वृक्षे फलान्येव फलेषु चाङ्कुरस्तरोः