अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो । अमूल्यरत्ननिर्माणं भवनानां वरं गृहम्
रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता । कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा
अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता । अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम्
रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः । दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम्
सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः । दधती कबरीभारं मालतीमल्यमण्डितम्
रचितं वामभगेन मुनीन्द्राणां मनोहरम् । एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता
श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः । अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः
मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा । सुदाम्नः सा च शापेन वृषभानसुताऽधुना
शताब्दिको हि विच्छेदो भविष्यति मया सह । तेन भारावतरणं करिष्यसि भुवः पितः
तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् । त्वया यशोदया चाऽपि गोबैर्गोपीभिरेव च
वृषभानेन तत्पत्न्या कलावत्या च बान्धवैः । एवं च नन्दं सानन्दं यशोदां कथयिष्यसि
त्यज शोक्रं महाभाग व्रजैः सार्धं व्रजं व्रज । अहमात्मा च साक्षी च निर्लिप्तः सर्वजीविषु
जीवो मत्प्रतिबिम्बश्च इत्येवं सर्वसंमतम् । प्रकृतिर्मद्विकारा च साऽप्यहं प्रकृतिः स्वयम्
यथा दुग्धे च धावल्यं न तर्योर्भैद एव च । यथा जले तथा शैत्यं यथा वह्नौ च दाहिका
यथाऽऽकाशे तथा शब्दो भूमौ गन्धो यथा नृप । यथा शोभा च चन्द्रे च यथा दिनकरे प्रभा
यथा दीवस्तथाऽऽत्माहं तथैव राधया सह । त्यज त्वं गोपिकाबुद्धिं राधायां मयि पुत्रताम्
अहं सर्वस्य प्रभावः सा च प्रकृतिनीश्वरी । श्रूयतां नन्द सानन्दं मद्विभूतिं सुखावहाम्
पुरा या कथिता तात ब्रह्मणे व्यक्तजन्मने । कृष्णोऽहं देवतानां च गोलोके द्विभुजः स्वयम्
चतुर्भुजोऽहं वैकुण्ठे शिवलोके शिवः स्वयम् । ब्रह्मलोके च ब्रह्माऽहं सूयस्तेजस्विनामहम्
पवित्राणामहं वह्निर्जलमेव द्रवेषु च । इन्द्रियाणां मनश्चास्मि समीरः शीघ्रगामिनाम्
यमोऽहं दण्डकर्त णां कालः कलयतामहम् । अक्षराणामकारोऽस्मि साम्नां च साम एव च
इन्द्रश्चतुर्दशेन्द्रेषु कुबेरो धनिनामहम् । ईशानोऽहं दिमीशानां व्यापकानां नभस्तथा
सर्वान्तरात्मा जीवेषु ब्राह्मणश्चाऽऽश्रमेषु च । धनानां च रत्नमहममूल्यं सर्वदुर्लभम्
तैजसानां सुवर्णोऽहं मणीनां कौस्तुभः स्वयम् । वैष्णवानां कुमारोऽहं योगीन्द्राणां गणेश्वरः
पुष्पाणां पारिजातोऽहं तीर्थानां पुष्करः स्वयम् । शालग्रामस्तथाऽर्च्यानां पत्राणां तुलसीति च
सेनापतीनां स्कन्दोऽहं लक्ष्मणोऽहं धनुष्मताम् । राजेन्द्राणां च रामोऽहं नक्षत्राणामहं शशी
मासानां मर्गशीर्षोऽहमृतूनामस्मि माधवः । वारेष्वादित्यवारोऽहं तिथिष्वेकादशीति च
सहिष्णूनां च पृथिवी माताऽहं बान्धवेषु च । अमृतं भक्ष्यवस्तूनां गव्येष्वाज्यमहं तथा
कल्पवृक्षश्च वृक्षाणां सुरभिः कामधेनुषु । गङ्गाऽहं सरितां मध्ये कृतपापविनाशिनी
वाणीति पण्डितानां च मन्त्राणां प्रणवस्तथा । विद्यासु बीजरूपोऽहं सस्यानां धान्यमेव च