सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् । निराधारश्च वैकुण्ठो ब्रह्माण्डेम्यः परो वरः
तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् । ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः
सप्तद्वारः सप्तसारः परिखासप्तसंयुतः । लक्षप्राकारयुक्तश्च नद्या विरजया युतः
वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा । योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम्
शतकोटियोजनश्च शैल उच्छ्रित एव च । दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम्
योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः । अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु
पारिजातवनेनैव पुष्पितेन च वेव्टितः । कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च
नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा । त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः
रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः । नानाभोगसमायुक्तो सधुवापीशतैर्वृतः
पीयूषवापीयुक्तश्च कामभोगसमन्वितः । गोलोकगृहसंख्यानवर्णने वा विशारदः
न कोऽपि वेद विद्वान्वा वेदविद्वान्व्रजेश्वरः । अमूल्यरत्ननिर्माणभवनानां त्रिकोटिभिः
शोभितं सुन्दरं रम्यं राधाशिविरमुत्तमम् । अमूल्यरत्नकलशैरुज्ज्वलं रत्नदर्पणैः
असूल्यरत्नस्तमभानां राजिभिश्च विराजितम् । नानाचित्रविचित्रैश्च चित्रितं श्वेतचामरैः
माणिक्यमुक्तासंसक्तं हीरावारसमन्वितम् । रत्नप्रदीपसंसक्तं रत्नसोपानसुन्दरम्
अमूल्यरत्नपत्रैश्च तल्पराजिविराजितम् । अमूल्यरत्नचित्रैश्च त्रिभिश्चित्रविचित्रितैः
तिसृभिः परिखाभिश्च त्रिभिर्द्वारैश्च दुर्गमैः । युक्तं षोडशकक्षाभिः प्रतिद्वारेषु वाऽन्तरम्
गोपीषोडशलक्षैश्च संनियुक्तैरितस्ततः । वह्निशुद्धांशुकाधानै रत्नभूषणभूषितैः
तप्तकाञ्चनवर्णाभैः शतचन्द्रसमन्वितैः । राधिकारिंकरीवर्गैर्युक्तमभ्यन्तरं वरम्
अमूल्यरत्ननिर्माणप्रङ्गणं सुमनोहरम् । अमूल्यरत्नस्तम्भानां समूरैश्च सुशोभितम्
रत्नमङ्गलकुम्भैश्च फलपल्लवसंयुतैः । संयुतं रत्नवेदीभिर्मुक्ता युक्ताभिरीप्सितम्
अमूल्यरत्नमुकुरैः शोभितं सुन्दरैरहो । अमूल्यरत्ननिर्माणं भवनानां वरं गृहम्
रत्नसिंहासनस्था च गोपीलक्षैश्च सेविता । कोटिपूर्णेन्दुशोभाढ्या श्वेतचम्पकसंनिभा
अमूल्यरत्ननिर्माणभूषणैश्च विभूषिता । अमूल्यरत्नवसना बिभ्रती रत्नदर्पणम्
रत्नपद्मं च रुचिरं सव्यदक्षिणहस्ततः । दाडिम्बकुसुमाकारं सिन्दूरं सुमनोहरम्
सुशोभितं सृगमदैरिष्टैश्चन्दनबिन्दुभिः । दधती कबरीभारं मालतीमल्यमण्डितम्
रचितं वामभगेन मुनीन्द्राणां मनोहरम् । एवंभूतं (ता) तत्र राधा गोपीभिः परिसेविता
श्वेतचामरहस्ताभिस्तत्तुल्याभिश्च सर्वतः । अमूल्यरत्ननिर्माणैर्भूषिताभिश्च भूषणैः
मत्प्राणाधिष्ठातृदेवी देवीनां प्रवरा वरा । सुदाम्नः सा च शापेन वृषभानसुताऽधुना
शताब्दिको हि विच्छेदो भविष्यति मया सह । तेन भारावतरणं करिष्यसि भुवः पितः
तदा यास्यामि गोलोकं तया सार्धं सुनिश्चतम् । त्वया यशोदया चाऽपि गोबैर्गोपीभिरेव च