श्रीभगवानुवाच पितरं मातरं विद्यामन्त्रदं गुरुमेव च । यो न पुष्णाति पुरुषो यावज्जीवं च सोऽशुचिः
सर्वेषामपि पूज्यानां पिता वन्द्यो महान् गुरुः । पितुः शतगुणैर्माता गर्भधारणपोषणात्
माता च पृथिवीरूपा सर्वेभ्यश्च हिरैषिणी । नास्ति मातुः परो बन्धुः सर्वेषां जगतीतले
विद्यामन्त्रप्रदः कत्यं मातुः परतनो गुरुः । न हि तस्मात्परः कौऽपि वन्द्यः पूज्यश्च वेदतः
इत्येवमुक्त्वा श्रीकृष्णो बलभद्रो ननाम च । माता चकारतौ क्रोडे पिता च सादरं मुने
मिष्टान्नं परमं तौ च भोजयामास ब्राह्मणान् । वसुर्वसुसमूहं च ब्राह्मणेभ्यो ददौ मुदा
अथ त्रिसप्ततितमोध्यायः नारायण उवाच अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः । बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः
उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् । दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः
श्रीभगवानुवाच निबोध नन्द सानन्दं त्यज शोकं मुदं लभ । ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा
यद्यद्दत्तं च शोषाय गणेशायेश्वराय च । दिनेशाय मुनीशाय योगीशाय च पुष्करे
कःकस्य पुत्रः कस्तातः का माता कस्यचित्कुतः। आयान्ति यान्ति संसारं परं स्वकृतकर्मणा
कर्मानुसाराज्जन्तुश्च जायते स्थानभेदतः । कर्मणा कोऽपि जन्तुश्च योगीन्द्राणां नृपस्त्रियाम्
द्विजापत्न्यां क्षत्रियाणां वैश्यायां शूद्रयोनिषु । तिर्यग्योनिषु कश्चिच्च कश्चित्पश्वादियोनिषु
ममैव मायया सर्वे सानन्दा विषयेषु च । देहत्यामे विषण्णाश्च विच्छेदे बान्धवस्य च
प्रजाभूमिधनादीनां विच्छेदो मरणाधिकः । नित्यं भवति मूढश्च न च विद्वाञ्छुचा युतः
मद्भक्तो भक्तियुक्तश्च मद्याजी विजितेन्द्रियः । मन्मन्त्रोपासकश्चैव मत्सेवानिरतः शुचिः
मद्भयाद्वाति वातोऽयं रविर्भाति च नित्यशः । भाति चन्द्रो महेन्द्रश्च कालभेदे च वर्षति
वह्निर्वहति मृत्युश्च चरत्येव हि जन्तुषु । बिभर्ति वृक्षः कालेन पुष्पापि च फलानि च
निराधारश्च वायुश्च वाय्वाधारश्च कच्चिपः । शेषश्च कच्छपाधारः शेषाधारश्च पर्वतः
तदाधाराश्च पातालाः सप्त एव हि पङ्क्तितः । निश्चलं च जलं तस्माज्जलस्था च वसुंधरा
सप्तस्वर्ग धराधारं ज्योतिश्चकं ग्रहाश्रयम् । निराधारश्च वैकुण्ठो ब्रह्माण्डेम्यः परो वरः
तत्परश्चापि गोलोकः पञ्चाशत्को टियोजनात् । ऊर्ध्व निराश्रयश्चापि रत्नसारविनिर्मितः
सप्तद्वारः सप्तसारः परिखासप्तसंयुतः । लक्षप्राकारयुक्तश्च नद्या विरजया युतः
वेष्टितो रत्नशैलेन शतशृङ्गेण चारुणा । योजनायुतमानं च यस्यैकं शृङ्गमुज्ज्वलम्
शतकोटियोजनश्च शैल उच्छ्रित एव च । दैर्ध्यं तस्य शतगुणं प्रस्थं च लक्षयोजनम्
योजनायुतविस्तीर्णस्तत्रैव रासमण्डलः । अमूल्यरत्ननिर्माणो वर्तुलश्चन्द्रबिम्बवतु
पारिजातवनेनैव पुष्पितेन च वेव्टितः । कल्पवृक्षसहस्रेण पुष्पोद्यानशतेन च
नानाविधैः पुष्पवृक्षैः पुष्पितेन च चारुणा । त्रिकोटिरत्नभवनो गोपीलक्षैश्च रक्षितः
रत्नप्रदीपयुक्तश्च रत्नतल्पसमन्वितः । नानाभोगसमायुक्तो सधुवापीशतैर्वृतः
पीयूषवापीयुक्तश्च कामभोगसमन्वितः । गोलोकगृहसंख्यानवर्णने वा विशारदः