पिता माता दुग्धमुखं स्तनान्धं बालकं यथा । कामिन्यः कोटिकन्दर्पलीलालावप्यधारिणम्
कंसश्च कालपुरुषं वैरिणं तस्य बान्धवाः । मल्ला मृत्युप्रदं चैव प्राणतुल्यं च यादवाः
नमस्कृत्य मुनीन्विप्रान्पितरं मातरं गुरुम् । जगाम मञ्चकाम्याशं हस्ते कृत्वा सुदर्शनम्
दृष्टावा भक्तं भक्तबन्धुः कृपया च कृपानिधिः । आकृष्य मञ्चकात्कंकं जघान लीलया मुने
राजा ददर्श विश्वं च सर्वं कृष्णमयं परम् । पुरतो रत्नयानं च हीरकाहारभूषितम्
ययौ विष्णुपदं स्फीतो दिब्यरूपं विधाय च । तेजो विवेश परमं कृष्णपादाम्बुजे मुने
निवृत्य तस्य सत्कारं ब्राह्मणेम्यो धरं ददौ । ददौ राज्यं राजछत्रमुग्रसेनाय धीमते
स बभूव नृपेन्द्रश्च चन्द्रवंशसमुद्भवः । विललाप कंसमाता पत्नीवर्गश्च तत्पिता
बान्धवा मातृवर्गश्च भगिनी भ्रातृकामिनी । दर्शनं देहि राजेन्द्र समुत्तिष्ठ नृपासने
राज्यं रक्ष धनं रक्ष बान्धवं बलमेव च । क्व यासि बान्धवान्हित्वा त्वमनाथान्महाबल
ब्रह्मादिस्तम्बपर्यन्तमसंख्यं विश्वमेव च । सर्वं चराचराधारं यः सृजत्येव लीलया
ब्रह्मेशशेषधर्माश्च दिनेशश्च गणेश्वरः । मुनीन्द्रवर्गो देवेन्द्रो ध्यायते यमहर्निशम्
वेदाः स्तुपन्ति यं कृष्णं स्तौति भीता सरस्वती । स्तौति यं प्रकृतिर्हृष्टा प्राकृतं प्रकृतेः परम्
स्वेच्छामयं निरीहं च निर्गुणं च निरञ्जनम् । परात्परतरं ब्रह्म परमात्मानमीश्वरम्
नित्यं ज्योतिःस्वरूपं च भक्तानुग्रहविग्रहम् । नित्यानन्दं च नित्यं च नित्यमक्षरविग्रहम्
सोऽवतीर्णों हि भगवान्भारावतरणाय च । गोपालबालवेषश्च मायेशो मायया प्रभुः
स यं हन्ति च सर्वेशो रक्षिता तस्य कः पुमान् । स यं रक्षति सर्वात्मा तस्य हन्ता न कोऽपि च
इत्येवमुक्त्वा सर्वश्च विरराम महामुने । ब्राह्मणान्भोजयामास तेभ्यः सर्वं धनं ददौ
भगवानपि सर्वात्मा जगाम पितुरन्तिकम् । छित्तवा च लोहनिगडं तयोर्मोक्षं चकार सः
ननाम दण्डवद्भमौ मातरं पितरं तथा । तुष्टाव भक्त्तया देवेशो भक्तिनम्रात्मकंधरः
श्रीभगवानुवाच पितरं मातरं विद्यामन्त्रदं गुरुमेव च । यो न पुष्णाति पुरुषो यावज्जीवं च सोऽशुचिः
सर्वेषामपि पूज्यानां पिता वन्द्यो महान् गुरुः । पितुः शतगुणैर्माता गर्भधारणपोषणात्
माता च पृथिवीरूपा सर्वेभ्यश्च हिरैषिणी । नास्ति मातुः परो बन्धुः सर्वेषां जगतीतले
विद्यामन्त्रप्रदः कत्यं मातुः परतनो गुरुः । न हि तस्मात्परः कौऽपि वन्द्यः पूज्यश्च वेदतः
इत्येवमुक्त्वा श्रीकृष्णो बलभद्रो ननाम च । माता चकारतौ क्रोडे पिता च सादरं मुने
मिष्टान्नं परमं तौ च भोजयामास ब्राह्मणान् । वसुर्वसुसमूहं च ब्राह्मणेभ्यो ददौ मुदा
अथ त्रिसप्ततितमोध्यायः नारायण उवाच अथ कृष्णश्च सानन्दं नन्दं तं पितरं बलः । बोधयामास शोकार्तं दिव्यैराध्यात्मिकादिभिः
उच्चै रुदन्तं निश्चेष्टं पुत्रविच्चेदकातरम् । दत्त्वा तस्मै मणिश्रेष्ठमित्युवाच जगत्पतिः
श्रीभगवानुवाच निबोध नन्द सानन्दं त्यज शोकं मुदं लभ । ज्ञानं गृहाण मद्दत्तं यद्दतं ब्रह्मणे पुरा
यद्यद्दत्तं च शोषाय गणेशायेश्वराय च । दिनेशाय मुनीशाय योगीशाय च पुष्करे