भगवानपि तत्रैव क्षणं स्थित्वा स्वमन्दिरम् । जगाम यत्र नन्दश्च सानन्दो नन्दनन्दनः
अथ कंसो निशायां च निद्रायां भयविह्वलः । ददर्श दुःखदुःस्वप्नमात्मनो मृत्युसूचकम्
ददर्श सूर्यं भूमिस्थं चतुःखण्डं नभश्च्युतम् । दशखण्डे चन्द्रबिम्बं भूमिस्थं खाच्च्युतं मुने
पुरुषान्विकृताकारान्रज्जुहस्तान्दिगम्बरान् । विधवां शूद्रपत्नीं च नग्नां च च्छिन्ननासिकाम्
हसन्तीं चूर्णतिलकां श्वेतकृष्णोच्चमूर्धजाम् । खड्गखर्परहस्तां च लोलजिह्वां च बिभ्रतीम्
रुण्डमालासमायुक्तां गर्दभं महिषं वृषम् । भल्लूकं सूकरं काकं गृध्रं कह्कं च वानरम्
विरजं कुक्कुरं नक्रं शृगालं भस्मपुञ्जकम् । अस्थिराशिं तालफलं केशं कार्पासमुल्बणम्
निर्वाणाङ्गारमिल्कां च शवं सर्त्यं चिताश्रितम् । कुलालतैलकाराणां चक्रं वक्रं कपर्दकम्
श्मशानं दग्धकाष्ठं च शुष्ककाष्ठं कुणं तृणाम् । गच्छन्तं च कबन्धं च नदन्तं मृतमस्तकम्
दग्धस्थानं भस्मयुतं तडागं जलवर्जितम् । दग्धमत्स्यं च लोहं च निर्वाणदग्धकाननम्
गलत्कुष्ठं च वृषलं नग्नं च सुक्तसूर्धचम् । अतीव रूपटं विप्रं च शपन्तं गुरुमीदृशाम्
अतीवरुष्टं भिक्षुं च योगिनं वैष्णवं नरम् । एवं दृष्ट्वा समुत्थाय कथयामास मातरम्
पितरं भ्रातरं पत्नीं रुदतीं प्रेमविह्वलम्
मल्लसैन्यं च योद्धारं कारयामास मङ्गलम् । सभां च कारयामास पुण्यं स्वस्त्ययनं शिवम्
यत्नेन योजयामास योगे युक्तं पुरोहितम् । उवास मञ्चके रम्ये धृत्वा खड्गं विलक्षणम्
रणे नियोजयामास योद्धारं युद्धकोविदम् । वासयामास राजेन्द्रान्ब्राह्मणांश्च मुनीश्वरान्
ब्राह्मणाश्च सुहृद्वर्गान्धर्मिष्ठान्रणकोविदान् । अथाऽऽजगम गोविन्दो रामेण सह नारद
महेशस्य धनुर्मध्यं बभञ्ज तत्र लीलया । शब्देन तस्य मथुरा बधिरा च बभूव ह
विषादं प्राप कंसश्च मुदं च देवकीसुतः । उपस्थितः सभामद्धे गजं मल्लं निहत्य च
यथा हृत्पद्ममध्यस्थं तादृशं बहिरेव च । राजेन्द्ररूपं राजानः शास्तारं दण्डधारिणा म्
पिता माता दुग्धमुखं स्तनान्धं बालकं यथा । कामिन्यः कोटिकन्दर्पलीलालावप्यधारिणम्
कंसश्च कालपुरुषं वैरिणं तस्य बान्धवाः । मल्ला मृत्युप्रदं चैव प्राणतुल्यं च यादवाः
नमस्कृत्य मुनीन्विप्रान्पितरं मातरं गुरुम् । जगाम मञ्चकाम्याशं हस्ते कृत्वा सुदर्शनम्
दृष्टावा भक्तं भक्तबन्धुः कृपया च कृपानिधिः । आकृष्य मञ्चकात्कंकं जघान लीलया मुने
राजा ददर्श विश्वं च सर्वं कृष्णमयं परम् । पुरतो रत्नयानं च हीरकाहारभूषितम्
ययौ विष्णुपदं स्फीतो दिब्यरूपं विधाय च । तेजो विवेश परमं कृष्णपादाम्बुजे मुने
निवृत्य तस्य सत्कारं ब्राह्मणेम्यो धरं ददौ । ददौ राज्यं राजछत्रमुग्रसेनाय धीमते
स बभूव नृपेन्द्रश्च चन्द्रवंशसमुद्भवः । विललाप कंसमाता पत्नीवर्गश्च तत्पिता
बान्धवा मातृवर्गश्च भगिनी भ्रातृकामिनी । दर्शनं देहि राजेन्द्र समुत्तिष्ठ नृपासने
राज्यं रक्ष धनं रक्ष बान्धवं बलमेव च । क्व यासि बान्धवान्हित्वा त्वमनाथान्महाबल