कृष्णस्तस्मै वरं दत्तवा स्वदास्यमतिदुर्लभम् । माल्यं गृहीत्वा प्रययौ राजमार्गे वरं वरः
ततो ददर्श रजकं बिभ्रतं वस्त्रपुञ्जकम् । अहंकृतिबलिष्ठं च सततं योवनोद्वतम्
वस्त्रं ययाचे तं कृष्णो विनयेन महामुने । स तस्मै न ददौ वस्त्रं तमुवाच च निष्ठुरम्
गोरक्षकाणां त्वद्योग्यं वस्त्रमेतत्सुदुर्लभम् । राजयोग्यं च हे मूढ हे गोपजनवल्लभ
गृहीत्वा गोपकन्याश्च कन्यालोलुप लम्पट । यद्विहारः कृतस्तत्र वृन्दारण्येऽप्यराजके
न चात्र तादृशं कर्म राज्ञः कंसस्य वर्त्मंनि । विद्यमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्क्षणम्
रजकस्य वचः श्रुत्वा जहास मधुसूदनः । जहास बलदेवश्च साक्रूरो गोपवर्गकः
तं निहत्य चपेटेन जग्राह वस्त्रपुञ्जकम् । वस्त्रं संधारयामास श्रीकृष्णः सगणस्तथा
रत्नयानेन गोनोकं पार्षदेर्वेष्टितेन च । ययौ रजकराजश्च धृत्वा दिव्यकलेवरम्
शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् । पीतवस्त्रसमायुक्तं सस्मितं श्यामसुन्दरम्
बभूव सोऽपि गोलोके पार्षदेषु च पार्षदः । कृष्णस्याऽऽगमनं तत्र सस्मार सततं वशी
अस्तं गतो दिनकरोऽप्यक्रूरः स्वगृहं ययौ । कृष्णस्यानुमतिं प्राप्य कृष्णोऽपि कस्यचिद्गृहम्
वैष्णवस्य कुविन्दस्य तस्मिन्नस्तधनस्य च । सानन्दो नन्दसहितो बलदेवादिभिर्युतः
स भक्तः पूजयामास प्रणम्य श्रीनिकेतनम् । तस्मै ददौ स्वदास्यं च वरं ब्रह्मादिदुर्लभम्
पर्यङ्के सुषुपुः सर्वे भुक्त्वा मिष्टान्नसुत्तमम् । निद्रां च लेभे सा कुब्जा निद्रेशोऽपिययौ मुदा
गत्वा ददर्श कुब्जां तां रत्नतल्पे च निद्रिताम् । दासीगणैः परिवृतां सुन्दरीं कमलामिव
बोधयामास तां कृष्णो न दासीस्वपि निद्रिताः । तामुवाच जगन्नाथो जगन्नाथप्रियां सतीम्
श्रीभगवानुवाच त्यज निद्रां महाभागे शृङ्गारं देहि सुन्दरि । पुरा शूर्पणखा त्वं च भगिनीं रावणस्य च
रामजन्मनि मद्धेतोस्त्वया कान्ते तपः कृतम् । तपःप्रभावान्मां कान्तं भज श्रीकृष्णजन्मनि
अधुना सुखसंयोगं कृत्वा गच्छ ममाऽऽलयम् । सुदुर्लभं च गोलोकं जरासृत्युहरं परम्
इत्युकत्वा श्रीनिवासश्च कृत्वातामेव वक्षसि । नग्नां चकार शृङ्गारं चुम्बनं चापि कामुकीम्
स सस्मिता च श्रीकृष्णं नवसंगमलज्जिता । चुचुम्ब गण्डे क्रोडे तं चकार कमला यथा
सुरतेर्विरतिर्नास्ति दंपती रतिपण्डितौ । नानाप्रकारसुरतं बभूव तत्र नारद
स्तनश्रोणियुगं तस्या विक्षतं च चकार ह । भगवान्नखरैस्तीक्ष्णैर्दशनैरधरं वरम्
निशावसानसमये वीर्याधानं चकार सः । सुखसंभोगभोगेन मूर्च्छामाप च सुन्दरी
तत्राऽऽजगामतां तन्द्रा कृष्णवक्षःस्थलस्थिताम् । बुबुधे न दिवारात्रं स्वर्ग मर्त्य जलं स्थलम्
सुप्रभाता च रजनी बभूव रजनीपतिः । पत्युर्व्यतिक्रमेणैव लज्जयेव मलीमसः
अथाजगाम गोलोकाद्रथो रत्नविनिर्मितः । जगाम तेन तं लोकं धृत्वा दिव्यकलेवरम्
वह्निशुद्धां शुकाधानं रत्नभूषणभूषितम् । प्रतप्तकाञ्चनाभासं नित्यं जन्मादिवर्जितम्
सा बभूव च तत्रैव गोपी चन्द्रमुखी मुने । गोप्यः कतिविधास्तस्या बभूवुः परिचारिकाः