प्रणम्य सहसा मूधर्ना भक्तिनम्रा पुटाञ्जलिः । प्रददौ चन्दनं तस्य गात्रेश्यामलसुन्दरे
गात्रेषु तद्गणानां च स्वर्णपात्रकरा वरा । कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनः पुनः
श्रीकृष्णदृष्टिमात्रेण श्रीयुक्ता सा बभूव ह । सहसा श्रीसमा रम्या रूपेण यौवनेन च
वहिशुद्धांशुवसना रत्नभूषणभूषिता । यथा द्वादशवर्षोया कन्या धन्या मनोहरा
बिम्बोष्ठी सस्मिता श्यामा तप्तकाञ्चनसंनिभा । सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा
अमूल्यरत्ननिर्माणहारसारविराजिता । गजेन्द्रराजगमना रत्नमञ्जीररञ्जिता
बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् । रक्षितं वामभागेन रुचिरं वर्तुलाकृतिम्
सिन्दूरबिन्दुं दधतों दाडिमीकुसुमाकृतिम् । कस्तूरी बिन्दुमुपरि सार्ध चन्दनबिन्दुभिः
रन्नदर्पणाहस्ता च प्रशस्ता रतिकर्मसु । श्रीकृष्णं वरयामास लोललोचनकोणतः
श्रीवासस्तां समाश्वस्य ययौ स्थानान्तरं परम् । कृतार्थरूपा सा प्रीत्या ययौ पद्मयथाऽऽलयम्
स ददर्श स्वभवनं यया पद्यालयालयम् । रत्नशय्याविरचितं सद्रत्नसारनिर्मितम्
रत्नप्रदीपराजीभी राजिताभिश्च राजितम् । रत्नदर्पणराजैश्च राजितं परितस्ततः
सिन्दूरवस्त्रताम्बूलं श्चेतचामरमाल्यकम् । बिभ्रतीभिश्च दासीभिर्वेष्टितं दाससंघकैः
तत्र गत्वा च भुक्त्वा च मिष्टान्नं परमं मुदा । सुष्वाप रत्नपर्यङ्के सा दासीभिश्च सेविता
सकर्पूरं च ताम्बूलं कस्तूरीकुङ्कुमान्वितम् । चन्दनं स्थापयामास स्वतल्पे हरये सती
मालतीमाल्ययुगलं कर्पूरादिसुवासितम् । शीतलं सलिलं स्वादु मिष्टान्नं स्वसमीपतः
कर्मणा मनसा वाचा चिन्तयन्ती हरेः पदम् । हरेरागमनं चापि मुखचन्द्रं मनोहरम्
जगत्कृष्णमयं शश्वत्पश्यन्ती कामुकी मुने । कोटिकन्दर्पलीलाभं कामसक्तं च कामुकम्
ततो तदर्श श्रीकृष्णो मालाकारं मनोहरम् । मालासमूहं बिभ्रन्तं गच्छन्तं राजमन्दिरम्
सोऽपि दृष्ट्वा च श्रीकान्तं प्रणम्य शिरशा भुवि । ददौ माल्यसमूहं च कृष्णाय परमात्मने
कृष्णस्तस्मै वरं दत्तवा स्वदास्यमतिदुर्लभम् । माल्यं गृहीत्वा प्रययौ राजमार्गे वरं वरः
ततो ददर्श रजकं बिभ्रतं वस्त्रपुञ्जकम् । अहंकृतिबलिष्ठं च सततं योवनोद्वतम्
वस्त्रं ययाचे तं कृष्णो विनयेन महामुने । स तस्मै न ददौ वस्त्रं तमुवाच च निष्ठुरम्
गोरक्षकाणां त्वद्योग्यं वस्त्रमेतत्सुदुर्लभम् । राजयोग्यं च हे मूढ हे गोपजनवल्लभ
गृहीत्वा गोपकन्याश्च कन्यालोलुप लम्पट । यद्विहारः कृतस्तत्र वृन्दारण्येऽप्यराजके
न चात्र तादृशं कर्म राज्ञः कंसस्य वर्त्मंनि । विद्यमानोऽत्र राजेन्द्रः शास्ता दुष्टस्य तत्क्षणम्
रजकस्य वचः श्रुत्वा जहास मधुसूदनः । जहास बलदेवश्च साक्रूरो गोपवर्गकः
तं निहत्य चपेटेन जग्राह वस्त्रपुञ्जकम् । वस्त्रं संधारयामास श्रीकृष्णः सगणस्तथा
रत्नयानेन गोनोकं पार्षदेर्वेष्टितेन च । ययौ रजकराजश्च धृत्वा दिव्यकलेवरम्
शश्वद्यौवनयुक्तं च जरामृत्युहरं वरम् । पीतवस्त्रसमायुक्तं सस्मितं श्यामसुन्दरम्