नन्देनाऽऽनन्दयुक्तेनाऽऽश्लिष्टो दक्षिणपार्श्वतः । संभाषितो बान्धवैश्च पित्रा मात्रा च चुम्बितः
इति शीब्रह्मo महाo श्रीकृष्णजन्मखo उत्तo नारदनाo यात्रामङ्गलं नामैकसप्ततितमोऽध्यायः
अथ द्विसप्ततितमोऽध्यायः नारायण उवाच अथ कृष्णो गुरुं नत्वा निर्गम्य शिबिरान्मुने । आरुह्य स्वर्गयानं च शुभां मधुपुरीं ययौ
विवेश मथुरां रम्यां सहाक्रूरगणैः समम् । निर्जित्य शक्रनगरी शोभायुक्तां मनोहराम्
रत्नश्रेष्ठेन खचितां रचितां विश्वकर्मणा । अमूल्यरत्नकलशो राजितैश्च विराजनाम्
राजमर्गशतैरिष्टैर्वैष्टितां रुचिरैर्वरैः । चन्द्राकारैश्चन्द्रसारैर्मणिमिः परिसंस्कृतैः
विचित्रैर्मणिसारैश्च वीथीशतविनिर्मितैः । शोभितैर्वणिजैः श्रेष्ठैः पुण्यवस्तुसमन्वितैः
सरोवरसहस्रैश्च परितः परिशोभितम् । शुध्धस्फटिसंकाशैः पद्मरागविराजितैः
रत्नालंकारभूषाढ्यैः शोभितां पद्मिनीगणैः । स्यिरयौवनसंयुक्तैर्निमेषरहितैः परैः
शाक्षरैरूर्ध्ववदनैः कृष्णदर्शनलालसैः । भ्रूभङ्गलीलालोलैश्च शश्वच्चञ्चललोचनैः
शश्वत्कामसमायुक्तैः पीनश्रोणिपयोधरेः । कोमलाङ्गैर्मध्यकूपै रतिरासविशारदैः
रत्ननिर्माणयानानां कोटिभिः परिशोभिताम् । भूषणैर्भूषिताभिश्च चित्रेताभिश्च चित्रकैः
नानाप्रकारश्रीयुक्तां पुष्पोद्यानत्रिकोटिभिः । नानापुष्पैः पुष्पिताभिर्युक्ताभिर्मधुसूदनैः
माधुर्यमधुसंयुक्तैर्मधुलुब्धैर्मुदाऽन्वितैः । माध्वीकमधुमत्तैश्च युक्तैर्मंधुकरीचयैः
नानाप्रकारदुर्गेश्च दुर्गम्यां वैरिणां गणैः । रणितां रणकैः शाश्चद्रक्षाशास्त्रविशारदैः
त्रिकोट्ट्याट्टालिकाभिश्च संयुक्तां सुमनोहराम् । रचितां किल सद्रत्नैर्विचित्रैर्विश्वकर्मणा
एवंभूतां च मथुरां दृष्ट्वा कमललोचनः । ददर्श पथि कुब्जां तां वृद्धामतियरादुराम्
यान्तों दण्डसहायेन चातिनम्रां नमद्वलीम् । रूक्षितां विकृताकारां बिभ्रतीं चन्दनद्रवम्
कस्तूरीकुङ्कुमाक्तं च स्पर्शमात्रेण नारद । सुगन्धिमकरन्देन गन्धाढ्यं सुमनोहरम्
सादृष्ट्वा सस्मिता वृद्धा श्रीकान्तं शान्तमीश्वरम् । श्रीयुक्तं श्रीनिवासं तं श्रीबीजं श्रीनिकेतनम्
प्रणम्य सहसा मूधर्ना भक्तिनम्रा पुटाञ्जलिः । प्रददौ चन्दनं तस्य गात्रेश्यामलसुन्दरे
गात्रेषु तद्गणानां च स्वर्णपात्रकरा वरा । कृत्वा प्रदक्षिणं कृष्णं प्रणनाम पुनः पुनः
श्रीकृष्णदृष्टिमात्रेण श्रीयुक्ता सा बभूव ह । सहसा श्रीसमा रम्या रूपेण यौवनेन च
वहिशुद्धांशुवसना रत्नभूषणभूषिता । यथा द्वादशवर्षोया कन्या धन्या मनोहरा
बिम्बोष्ठी सस्मिता श्यामा तप्तकाञ्चनसंनिभा । सुश्रोणी सुदती बिल्वफलतुल्यपयोधरा
अमूल्यरत्ननिर्माणहारसारविराजिता । गजेन्द्रराजगमना रत्नमञ्जीररञ्जिता
बिभ्रती कबरीभारं मालतीमाल्यवेष्टितम् । रक्षितं वामभागेन रुचिरं वर्तुलाकृतिम्
सिन्दूरबिन्दुं दधतों दाडिमीकुसुमाकृतिम् । कस्तूरी बिन्दुमुपरि सार्ध चन्दनबिन्दुभिः
रन्नदर्पणाहस्ता च प्रशस्ता रतिकर्मसु । श्रीकृष्णं वरयामास लोललोचनकोणतः
श्रीवासस्तां समाश्वस्य ययौ स्थानान्तरं परम् । कृतार्थरूपा सा प्रीत्या ययौ पद्मयथाऽऽलयम्