कृत्वा तु लोष्टशौचं च जलशौचं ततः परम्
एकां लिङ्गे मृदं दद्याद्वामहस्ते चतुष्टयम्
मूत्रशौचं द्विगुणितं मैधुनानन्तरं यदि
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश 1.26.
पुरीषशौचं विप्राणां गृहिणामिदमेव च
यतीनां वैष्णवानां च ब्रह्मर्षेर्ब्रह्मचारिणाम्
नो यावदुपनीयेत द्विजः शूद्रस्तथाऽङ्गना
शौचं क्षत्रविशोश्चैव द्विजानां गृहिणां समम्
न्यूनाधिकं न कर्तव्यं शौचं शुद्धिमभीप्सता
शौचं तन्नियमं मत्तः सावधानं निशामय
वल्मीकमूषिकोत्खातां मृदमन्तर्जलां तथा
अन्तःप्राण्यवपर्णां च हलोत्खातां विशेषतः
अश्वत्थमूलान्नीतां च तथैव शयनोत्थिताम्
शस्यस्थलानां क्षेत्राणामुद्यानानां मृदं त्यजेत् 1.26.
शौचहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु
आदौ षोडशगण्डूषैर्मुखशुद्धिं विधाय च
पुनः षोडशगण्डूषैर्मुखशुद्धिं समाचरेत्
निरूपितं सामवेदे हरिणा चाह्निकक्रमे
खदिरं च शिरीषं च जातिपुन्नागशालकम्
जम्बूकं बकुलं तोक्मं पलाशं च प्रशस्तकम्
वृक्षं कण्टकयुक्तं च लतादि परिवर्जयेत्
खर्जूरं नारिकेलं च तालं च परिवर्जयेत्
शौचहीनोऽशुचि र्नित्यमनर्हः सर्वकर्मसु
प्रक्षाल्य पादावाचम्य प्रातःसन्ध्यां समाचरेत् 1.26.
स स्नातः सर्वतीर्थेषु त्रिसन्ध्यं यः समाचरेत्
यदह्ना कुरुते कर्म न तस्य फलभाग्भवेत्
स शूद्रवद्बहिष्कार्य्यः सर्वस्माद्द्विजकर्मणः
ब्रह्महत्यामात्महत्यां प्रत्यहं लभते द्विजः
कल्पं व्रजेत्कालसूत्रं यथा हि वृषलीपतिः
ब्रह्माणमीशं विष्णुं च मायां पद्मां सरस्वतीम्