काचित्तं ताडयामास कङ्कणेन करेण च । तद्वस्त्रं हारयामास कृत्वा विवसनं मुने
क्षतविक्षतसर्वाङ्गं दृष्ट्वाऽक्रूरं च माधवः । जगाम राधानिकटं बोधयामास तां पुनः
आध्यात्मिकेन योगेन विनयेन च सादरम् । अक्रूरं बोधयामास वोधयामास तां पुनः
आकाशात्पतितं दिव्यं सन्त्रप्रस्थापितं रथम् । विचित्रवस्त्रसंयुक्तं ददर्श पुरतो हरिः
खचितं मणिराजेन रचितं विश्वकर्मणा । तं दृष्ट्वा मातृभवनमाजगाम जगत्पतिः
भुक्त्वा पीत्वा सुखं सुप्त्वा भगवान्सहबान्धवः । तस्थौ मुनीन्द्रदेवेन्द्रब्रह्मेशशेषवन्दितः
मुषुपुर्गोंपिकाः सर्वाः परं संहृष्टमानसाः । पुष्पतल्पे च रम्ये च राधया सह नारद
सर्वे चाऽऽनन्दयुक्ताश्च जना गोकुलवासिनः । केचिद्गोपाश्च ननृतुः केचित्संगीततत्पराः
अथैकसप्ततितमोऽध्यायः नारायण उवाच राधिकायां च सुप्तायां सुप्तासु गोपिकासु । पुष्पचन्दनतल्पे च वायुना सुरभीकृते
तृतीयप्रहरेऽतीते निशायां च शुभे क्षणे । शुभचन्द्रर्क्षयोगे चामृतयोगसमन्विते
सौम्यस्वामियुते लग्ने सौम्यग्रहविलोकिते । पापग्रहसमासक्तदुष्टदोषादिवर्जिते
यशोदां बोधयामास कारयामास मङ्गलम् । वन्धूनाश्वासयामास समुत्थाय हरिः स्वयम्
वाद्यं निषेधयामास राधिकाभयभीतवत् । स्वतन्त्रो विश्वकर्ता च पाता भर्ता स्वतन्त्रवत्
प्रक्षाल्य पादयुगलं धृतवा धौते च वाससी । उवास संस्कृते स्थाने विलिप्ते चन्दनादिना
फलपल्लवसंयुक्तं संस्कृतं चन्दनादिभिः । वामे कृत्वा पूर्णकुम्भं वह्निं विप्रं स्वदक्षिणे
पतिपुत्रवतीं दीपं दर्पणं पुरतस्तथा । दूर्वाकाण्डं च सुस्निग्धं पुष्पं धान्यं सितं शुभम्
गुरुदत्तं गुहीत्वा च प्रदधौ मस्तकोपरि । धृतं ददर्श माध्वीकं रजतं काञ्चनं दधि
चन्दनं लेपनं कृत्वा पुष्पमालां गले ददौ । गुरुवर्गं ब्राह्मणं च वन्दयामास भक्तितः
शङ्खध्वनिं वेदपाठं संगीतं मङ्गलाष्टकम् । विप्रशीर्वचनं रम्यं शुश्राव परमादरम्
ध्यात्वा मङ्गलरूपं च सर्वत्र मङ्गलप्रदम् । चिक्षेप दक्षिणां पादं सुन्दरं स्वात्मविग्रहम्
विधृत्य नासिकावामभागं मध्यमया विभुः । विसृज्य वायुं संपूर्णं नासादक्षिणरन्ध्रतः
ततो ययौ नन्दनन्दो नन्दस्य प्राङ्गणं वरम् । सानन्दः परमानन्दो नित्यानन्दः सनातनः
नित्योऽनित्यो नित्यबीचस्वरूपो नित्यविग्रहः । नित्याङ्गभूतो नित्येशो नित्यकृत्यविशारदः
नित्यनूतनरूपश्च नित्यनूतनयौवनः । नित्यनूतनवेषश्च वयसा नित्यनूतनः
नित्यनूतनसंभाषो यत्प्रेम नित्यनूतनम् । नित्यनूतनसंप्राप्तिः सौभाग्यं नित्यनूतनम्
सुधारसपरं मिष्टं यत्वाक्यं नित्यनूतनम् । नित्यनूतनभक्तं च यत्पदं नित्यनूतनम्
स्थायं स्थायं प्राङ्गणेऽस्मिनमायेशो मायया युतः । अतीव रम्ये सुस्निग्धो बभूव गमनोन्मुखः
रम्भास्तम्भसमूहैश्च रसालपल्लवान्वितैः । पट्टसूत्रनिबद्धैश्च सुन्दरैश्च सुसंस्कृतैः
पद्मरागेण खचिते रचिते विश्वकर्मणा । कस्तूरीकुङ्कुमाक्तैश्च चन्दनैश्च सुसंस्कृते
तत्र तस्थौ स्वयं कृष्णः सहाक्रूरः सबान्धवः । यशोदया समाश्लिष्टो वामपार्श्वेन मायया