क्षणं धर्मस्वरूपं च शेषरुपं क्षणं क्षणम् । क्षणं भास्कररूपं च ज्योतीरूपं सनातनम्
क्षणं परमशोभाढ्यं कोटिकन्दर्पनिन्दितम् । कामिनीकमनीयं च कामुकं कामसंयुतम्
एवंभूतं शिशुं दृष्ट्वा स्थापयामास वक्षसि । रत्नमिंहासने रम्ये नन्ददत्ते च नारद
कृत्वा प्रदक्षिणं भक्त्या पुलकाञ्चितविग्रहः । प्रणम्य शिरसा भूमौ तुष्टाव पुरुषोत्तमम्
अक्रूर उवाच नमः कारणरूपाय परमात्मस्वरूपिणे सर्वेषामपि विश्वानामीश्वराय नमो नमः । पराय प्रकृतेरीश परात्परतराय च
निर्गुणाय निरीहाय नीरूपाय स्वरूपिणे । सर्वदेवस्वरूपाय सर्वदेवेश्वराय च
सर्वदेवाधिदेवाय विश्वादिभूतरूपिणे । असंश्येषु च विश्वेषु ब्रह्मविष्णुशिवात्मक
स्वरूपायाऽऽदिबीजाय तदीशविश्वरूपिणे । नमो गोपाङ्गनेशाय गणेशेश्वररूपिणे
नमः सुरगणेशाय राधेशाय नमो नमः । राधारमणरूपाय राधारूपधराय च
राधाराध्याय राधायाः प्राणाधिकतराय च । राधासाध्याय राधाधिदेवप्रियतमाय च
राधाप्राणाधिदेवाय विश्वरूपाय ते नमः । वेदस्तुतात्मवेदज्ञरूपिणे सर्ववेदिने
वैदाधिष्ठातृदेवाय वेदबीजाय ते नमः । यस्य लोमसु विश्वानि चासंख्यानि च नित्यशः
महद्विष्णोरीश्वराय विश्वेशाय नमो नमः । स्वयं प्रकृतिरूपाय प्राकृताय नमोo
प्रकृतीश्वररूपाय प्रधानपुरूषाय च । इत्येवं स्तवनं कृत्वा मूर्च्छामाप सभातले
पपात सहसा भूमौ पुनरीशं ददर्श सः । बहिःस्थं हृदयस्थं च परमात्मानमीश्वरम्
परितः श्यामरूपं च विश्वस्थं विश्वमेव च । अक्रूरं मूर्च्छितं दृष्ट्वा नन्दः सादरपूर्वकम्
रत्नसिंहासने रम्ये वासयामास नारद । पप्रच्छ सर्ववृत्तान्तं किंस्विद्दृष्टमिति त्वया
मिष्टान्नं भोजयामाय कुशलं च पुनः पुनः । अक्रूरेः कथयामस कंसवृत्तान्तमीप्सितम्
स्वपित्रोर्मोक्षणार्थं च गमनं रामकृष्णयोः । इत्यक्रूरकृतं स्तोत्रं यः पठेत्सुसमाहितः
अपुत्रो लभते पुत्रमभार्यों लभते प्रियम् । अधनो धनमाप्नोति निर्भूमिरुर्वरां महीम्
हतप्रजः प्रजालाभं प्रतिष्ठां चाप्रतिष्ठितः । यशः प्राप्नोति विपुलमयशस्वी च लीलया
अथ सुष्वाप समये परं संहृष्टमानसः । रम्ये चम्पकतल्पे च कृष्णं कृत्वा स्ववक्षसि
प्रातरुथाय सहसा कृत्वाऽऽङ्निकमनुत्तमम् । स्वरथे स्थापयामास रामं कृष्णं जगत्पतिम्
गव्यं पञ्चप्रकारं च नानाद्रव्यं सुदुल्रभम् । वृषभानं च नन्दं च सुनन्दं चन्दभानकम्
नानाप्रकारं वाद्यं च मृदङ्गमुरजादिकम् । पटहं पणवं चैव ढक्कां दुंदुभिमानकम्
सज्जां संनहनीं कास्यपट्टमर्दलमण्डवीम् । वादयामास सानन्दं नन्दगोपो व्रजेश्वरः
श्रुत्वा वाद्यं च गोप्यश्च गमनं रामकृष्णयोः । दृष्ट्वा कृष्णं रथस्थं तमाययुः कोपपीडिताः
कृष्णेन वारिताः सर्वाः प्रेरिता राधाया द्विजः । बभञ्जुरीश्वररथं पादाघातेन लीलया
तत्र सर्वेषु गोपेश हाहाकारं कृतेषु च । प्रययुर्बलवत्यश्च कृष्णं कृत्वा स्ववक्षसि
काचित्क्रूरं तमक्रूरं भर्त्सयामास कोपतः । काश्चिद्वद्ध्वा च वस्त्रेण चाकूरं प्रययुस्ततः