वामे शैवं शिवां पूर्णकुम्भं नकुलचाषकम् । पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम्
शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् । दक्षिणे ज्वलदग्रिं च विप्रं च वृषभं गजम्
वत्सप्रयुक्तां धेरुं च श्वेताश्वं राजहंसकम् । वेश्यां च पुष्पमालां च पताकां दधि पायसम्
मणिं सुवर्ण रचतं मुक्तामाणिक्यमीप्सितम् । मद्यं मांकं चन्दनं च माध्वीकं घृतमुत्तमम्
कृष्णशारं फलं लाजाः सिद्धान्नं दर्पणं तथा । विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा
शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कीरकम् । मार्जारं पर्वतं मेघं मयूरं शुकसारसम्
शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् । विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम्
एवंभूतं शुभं दृष्टवा श्रुत्वा प्रहृष्टमानसः । प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम्
ददर्श पुरतो रम्यं रासमण्डलमीप्सितम् । चन्दनागुरुकस्तूरीपुष्पचन्दनवायुना
वासितं मङ्गलघटै रम्भास्तमभैर्विराजितम् । आम्रपल्लवसंघैश्च पट्टसूत्रविचित्रितैः
शोभितैः परितः शश्वत्पद्मरागविनिर्मितम् । शोभितं शोभनार्हं च त्रिकोटिरत्नमन्दिरैः
रम्यैः कुञ्जकुटीरैश्च राजितं शतकोटिभिः । रासं वृन्दावनं दृष्ट्वा कियद्दूरं ययौ च सः
ददर्श पुरतो रम्यं नन्दव्रजमनुत्तमम् । परं वेकुण्ठसंकाशं वैकुण्ठ निलयं शुभम्
रत्नसोपानसंयुक्तं रत्नस्तम्भैर्विराजितम् । नानाचित्रविचित्राढ्यं सद्रत्नवलयान्वितम्
खचितं मणिसारेण रचितं विश्वकर्मणा । द्वारि दृष्टेन मार्गेण राजद्वारं विवेश सः
पताकारत्नजालाढ्यं सुक्तामाणिक्यभूषितम् । रत्नदर्पणशोभाढ्यं रत्नचित्रविचित्रितम्
रत्नविथीविरचितं मङ्गलं मङ्गरैर्घटैः । अक्रूरागमनं श्रुत्वा साङ्लादो नन्द एव च
सहितो रामकृष्णाभ्यां जगामानुव्रजाय वै । वृषभान्वादिभिर्युक्तः कृत्वा वेश्यां पुरःसरम्
पूर्णकुम्भं गजेन्द्रं च कृत्वाऽग्रे शुक्लधान्यकम् । कृष्णां गां मधुपर्कं च पाद्यं रत्नासनादिकम्
गृहीत्वा सादरः शान्तः सस्मितो विनतस्था । आनन्दयुक्तो नन्दश्च सगणः सहबालकः
दृष्ट्वाऽक्रूरं महाभागं तूर्णमालिङ्गनं ददौ । प्रणेमुः शिरमा सर्वै गोपा जगृहुराशिषम्
परस्परं च संयोगो बभूव गुणत्रान्मुने । क्रोडे चकाराक्रूरश्च कृष्णं रामं क्रमेण च
चुचुम्ब गण्डयुगुले पुलकाञ्यितविग्रहः । साश्रुनेत्रोऽतिसाह्लादः कृतार्थः सिद्धवाञ्छितः
ददर्श कृष्णं द्विभुजं क्षणं श्यामलसुन्दरम् । पीतवस्त्रपरीधानं मालतीमाल्यभूषितम्
चन्दनोक्षितसर्वाङ्गं परं वंशीधरं वरम् । स्तुतं ब्रह्मेशशेषाद्यैर्मुनीन्द्रैः सनकादिभिः
वीक्षितं गोपकन्याभिः परिबूर्णतमं विभुम् । क्षणं ददर्श क्रोडस्थं सस्मितं च चतुर्भुजम्
लक्ष्मींसरस्वतीयुक्तं वनमालाविभूषितम् । सुनन्दनन्दकुमुदैः पार्षदैः परिसेवितम्
सेवितं सिद्धसंघैश्च भक्तिनम्रैः परात्परम् । क्षणं ददर्श देवं तं पञ्चवक्त्रं त्रिलोचनम्
शुद्धस्फटिकसंकाशं नागराजैर्विराजितम् । दिगम्बरं परं ब्रह्म भस्माङ्गं च जटायुतम्
जपमालाकरं ध्याननिष्ठं श्रेष्ठं च योगिनम् । क्षणं चतुर्मुखं ध्याननिष्ठं श्रेष्ठं मनीषिणाम्