ततो ददर्श सुस्वप्नं पुराणश्रुतिसंमतम् । निशावशेषसमये बाधादिपरिवर्जितः
अरोगी बद्धकेशश्च वस्त्रयुग्मसमन्वितः । सुतल्पशायी सुस्निग्धश्चिन्ताशोकविवर्जितः
किशोरवयसं श्यामं द्विभुजं मुरलीधरम् । पीतवस्त्रपरीधानं वनमालाविभूषितम्
चन्दनोक्षितसर्वाङ्गं मालतीमाल्यशोभितम् । भूषितं भूषणार्हं च सद्रत्नमणिभूषणैः
मयूरपिच्छचूडं च सस्मितं पद्मलोचनम् । एवंभूतं द्विचशिशुं ददर्श प्रथमं मुने
ततो ददर्श रुचिरां पतिपुत्रवतीं सतीम् । पीतवस्त्रपरीधानां रत्नभूषणभूषिताम्
ज्वलत्प्रदीपहस्तां च शुक्लधान्यकरां वराम् । शरच्चन्द्रनिभास्यां च सस्मितां वरदां शुभाम
ततो ददर्श विप्रं च प्रकुर्वन्तं शुभाशिषम् । श्वेतपद्मगतं हंसं तुरगं च सरोवरम्
ददर्श चित्रितं चारु फलितं पुष्पितं शुभम् । आम्रनिम्बनारिकेलगुर्वर्ककदलीतरुम्
दशन्तं श्वेतसर्पं च स्वात्मानं पर्वतस्थितम् । वृक्षस्थं च गजस्थं च तरिस्थं तुरगस्थितम्
वीणां वादितवन्तं च भुक्तवन्तं च पायसम् । दधिक्षीरयुतान्नं च पद्मपत्रस्थमीप्सितम्
कृमिविट्सहिताङ्गं च रुदन्तं मोहितं तदा । शुक्लधान्यपुष्पकरं क्षणं चन्दनचर्चितम्
प्रासादस्थं समुद्रस्थमात्मानं च सलोहितम् । छिन्नभिन्नं क्षताङ्गं च मेदपूयसमन्वितम्
ततो ददर्श रजतं मणिं शुभ्रं च काञ्चनम् । सुक्तामाणिक्यरत्नं च पूर्णकुम्भजलं शुभम्
सुरभिं च सवत्सां च वृषभेन्द्रं मयूरकम् । शुकं च सारसं हंसं चिल्लं खञ्जनमेव च
ताम्बूलं पुष्पमाल्यं च ज्वलदग्निं सुरार्चनम् । पार्वतीप्रतिमां कृष्णप्रतिमां शिवलिङ्गकम्
विप्रबालां च बालं च सुपक्वफलितां कृषिम् । देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गुरुं सुरम्
दृष्ट्वा स्वप्नं समुत्तस्थौ चकाराऽऽह्निकमीप्सितम् । उद्धवं कथयामास सर्वं वृत्तान्तमेव च
उद्धवाज्ञां समादाय कृत्वा गुरुसुरार्चनम् । यात्रां चकार श्रीकृष्णं ध्यात्वा मनसि नारद
ददर्श वर्त्मन्येवं च मङ्गलार्हं शुभप्रदम् । वाञ्छाफलप्रदं रम्यं पुरो मङ्गलसूचकम्
वामे शैवं शिवां पूर्णकुम्भं नकुलचाषकम् । पतिपुत्रवतीं साध्वीं दिव्याभरणभूषिताम्
शुक्लपुष्पं च माल्यं च धान्यं च खञ्जनं शुभम् । दक्षिणे ज्वलदग्रिं च विप्रं च वृषभं गजम्
वत्सप्रयुक्तां धेरुं च श्वेताश्वं राजहंसकम् । वेश्यां च पुष्पमालां च पताकां दधि पायसम्
मणिं सुवर्ण रचतं मुक्तामाणिक्यमीप्सितम् । मद्यं मांकं चन्दनं च माध्वीकं घृतमुत्तमम्
कृष्णशारं फलं लाजाः सिद्धान्नं दर्पणं तथा । विचित्रितं विमानं च सुदीप्तां प्रतिमां तथा
शुक्लोत्पलं पद्मवनं शङ्खचिल्लं च कीरकम् । मार्जारं पर्वतं मेघं मयूरं शुकसारसम्
शङ्खकोकिलवाद्यानां ध्वनिं शुश्राव मङ्गलम् । विचित्रकृष्णसंगीतं हरिशब्दं जयध्वनिम्
एवंभूतं शुभं दृष्टवा श्रुत्वा प्रहृष्टमानसः । प्रविवेश हरिं स्मृत्वा पुण्यं वृन्दावनं वनम्
ददर्श पुरतो रम्यं रासमण्डलमीप्सितम् । चन्दनागुरुकस्तूरीपुष्पचन्दनवायुना
वासितं मङ्गलघटै रम्भास्तमभैर्विराजितम् । आम्रपल्लवसंघैश्च पट्टसूत्रविचित्रितैः