संसारे चानृते वत्स दंपत्योः प्रीतिरेव च । परस्परं च समता प्रियसौभाग्यमीप्सितम्
दंपत्योः समता नास्ति यत्र-यत्र हि मन्तिरे । अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः
सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् । शोकसंतापबीजं च जीवितं मरणाधिकम्
स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः । पतिरेव गुरुः स्त्रीणामिह लोके परत्र च
अस्मात्तवयि गते नाथे मूर्च्छां संप्राप राधिका । पपात सहसा भूमौ तृणाच्छन्ने च भूतले
मया दत्तं मुखेऽस्याश्च शीतलं जलमुत्तमम् । तदा श्वासो बभूवास्याश्चेतनं बाल्यमेव च
क्षणं वदति हे नाथ हे कृष्णेति क्षणं सखी । क्षणं रोदिति संतप्ता मूर्च्छां प्राप्नोति तत्क्षणम्
राधिकायाः शरीरं च संतप्तं विरहानलैः । दग्धलोहयष्टिसममस्पृश्यमनलोपमम्
स्वप्ने जागनणे रात्रौ दिवसे च गृहे वने । जले स्थले चान्तरिक्षेऽभ्युदये चन्द्रसूर्ययोः
नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः । शश्वत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत्
स्निग्धपङ्के पङ्कजानां सजलानि दलानि च । निपत्य तत्कृते तल्पे सुष्वाप विरहातुरा
सेविता सा प्रियालीभिः संततं श्वेतचामरैः । चन्दनद्रवसंसिक्ता स्निग्धवस्त्रसमन्विता
राधाङ्गस्पर्शमात्रेण पङ्कः संप्राप शुष्कताम् । स्निग्धानि पद्मपत्राणि बभूवुर्भस्मसात्क्षणम्
चन्दनं शुष्कतां प्राप वर्णश्चम्पकसंनिभः । बभुव कज्जलाकारः केशस्य वर्णतो हरे
सिन्दूरबिन्दू रुचिरः श्यामतां प्राप तत्क्षणम् । वेषो विलासो लीला च क्रीडा त्यक्ता बभूव ह
रत्नमाला तु तां दृष्ट्वा गत्वा कृष्णान्तिकं तदा । उवाच मधुरं वाक्यं राधाहितकरं परम्
रत्नमालोवाच हे कृष्ण कमलाकान्त त्वद्वियोगेन मत्सखी । प्राणांस्त्यक्ष्यति शीघ्रं सा यदि नाऽऽयास्यसि ध्रुवम्
विचार्य मनसा कृष्ण यत्तत्समृचितं कुरु । न भवेत्कामिनीहत्या येन नीतिविशारद
रत्नमालावाचः श्रुत्वा प्रहस्योवाच माधवः । हितं सत्यं नीतिसारं परिणमसुखावहम्
श्रीभगवानुवाच ईशो यद्यपि शक्तोऽहं निषेकं खण्डितुं प्रिये । तथाऽपि न क्षमो रत्ने नियतेर्नं करोम्यहम्
ब्रह्माण्डेषु च सर्वेषु मर्यादा स्थापिता मया । तया कर्म प्रकुर्वन्ति मुनयश्च सुरा नराः
सुदामशापाद्विच्छेदः शतवर्षमनीप्सितः । भविष्यत्येव दंपत्योरावयोरेव सुन्दरि
भेदो जागरणेऽस्याश्च मया सह सुमध्यमे । संश्लेषः संततं स्वप्ने मद्वरेण भविष्यति
आध्यात्मिकी मया दत्ता शोकच्छेदो भविष्यति । राधां बोधय भद्रं ते यास्यामि नन्दमन्दिरम्
इत्युक्त्वा जगतां नाथो ययौ नन्दालयं प्रति । राधिकां बोधयामासुरालिसंघाश्च नारद
गत्वा गृहं च पितरं ननाम मातरं तथा । चकार माता क्रोडे च नवनीतं च नूतनम्
मातृदत्तं च ताम्बूलं चखाद शीतलं जलम् । उवास तत्र जगतां नाथो मातृसमीपतः
सर्वैर्गोपसमूहैश्च सेवितः श्वेतचामरैः । माल्यचन्दनताम्बूलं ते च तस्मै ददुर्मुदा
अथ सप्ततितमोऽध्यायः नारायण उवाच अथाक्रूरः स्वशरणं गत्वा कंसेन प्रेषितः । चकार शयनं तल्पे भुक्त्वा मीष्टान्नमुत्तमम्
सकर्पूरं च ताम्बूलं चखाद वासितं जलम् । जगाम निद्रां सुखतः सुखसंभोगमात्रतः