विहाय राधा निन्द्रां सा समुत्तस्थौ स्वतल्पतः । न निरीक्ष्य हरीं शान्तं कान्तं च प्राणवल्लभम्
हा नाथ रमण प्रेष्ठ प्राणेश प्राणवल्लभ । प्राणचोर प्रियतम क्व गतोऽसीत्युवाच ह
क्षणमन्वेषणं कृत्वा बभ्राम मालतीवनम् । उवास क्षणमुत्तस्थौ क्षणं सुष्वाप भूतले
रुरोद क्षणमत्युच्चैर्विललाप मुहुर्मुहुः । आगच्छाऽऽगच्छ हे नाथेत्येवसुक्त्वा पुनः पुनः
मूर्च्छां संप्राप संतापात्संप्तता विरहानलैः । भूतले च तृणाच्छन्ने पपात च यथा मृता
आययुस्तत्र गोप्यश्च ब्रह्मञ्छतसहस्रशः । काश्चिच्चामरहस्ताश्च गृहीत्वा चन्दनद्रवम्
तासां मध्ये प्रिया लीला कृत्वा राधां स्ववक्षसि । मृतामिव प्रियां दृष्ट्वा रुरोद प्रेमविह्वला
सजलं पङ्कजदलं पङ्कोपरि निधाय च । स्थापयामास तां राधां निश्चेष्टां च मृतामिव
गोपीभिः सेवितां तत्र रुचिरैः श्वेतचामरैः । चन्दनद्रवयुक्तां च स्निग्धवस्त्रान्वितां सतीम्
ददर्श कृष्णस्तत्रैत्य तामेव प्राणवल्लभाम् । निवारितश्च गोपीभिर्बलिष्ठाभिश्च नारद
यथा नीतः सापराधो दण्डथो राजभटादिभिः । चकार राधां क्रोडे च समागत्य कृपानिधिः
चेतनां कारयामास बोधयामास बोधनैः । संप्राप्य चेतनां देवी ददर्श प्राणवल्लाभाम्
बभूव सुस्थिरा देवी तत्याज विरहज्वरम् । चकार कान्तं सा कान्ता गात्रालिङ्गनमीप्सितम्
नानाप्रकारशृङ्गारं चकार मधुसूदनः । उवास रत्नतल्पे च राधां कृत्वा स्ववक्षसि
राधासखी रत्नमाला विदग्धा सर्वपूजिता । उवाच कृष्णं मधुरं नीतिसारमनुत्तमम्
रत्नमारोवाच शृणु कृष्ण प्रवक्ष्यामि परिणामसुखावहम् । हितं तथ्यं नीतिसारं दंपत्योः प्रीतिकारणम्
संमतं कामशास्त्रेषु नीतौ वेदपुराणयोः । लौकिकव्यवरारेषु प्रशस्यं सुयशस्करम्
नारीणां च प्रिया माता प्रियो भ्राता च वन्धुषु । ततः प्रियश्च पुत्रश्च पुत्रादेव प्रियः पतिः
शतपुत्रात्प्रियः स्वामी साध्वीनां साधुसंमतः । रसिकानां विदग्धानां न हि भर्तुः परः प्रियः
यदि भर्ता विदग्धश्च विदग्धानां सुखावहः । अन्यथा विषतुल्यश्च विषमश्चेत्खलः खलु
संसारे चानृते वत्स दंपत्योः प्रीतिरेव च । परस्परं च समता प्रियसौभाग्यमीप्सितम्
दंपत्योः समता नास्ति यत्र-यत्र हि मन्तिरे । अलक्ष्मीस्तत्र तत्रैव विफलं जीवनं तयोः
सुस्वामिनां विभेदश्च परं दुःखं च योषिताम् । शोकसंतापबीजं च जीवितं मरणाधिकम्
स्वप्ने जागरणे चापि पतिः प्राणाश्च योषितः । पतिरेव गुरुः स्त्रीणामिह लोके परत्र च
अस्मात्तवयि गते नाथे मूर्च्छां संप्राप राधिका । पपात सहसा भूमौ तृणाच्छन्ने च भूतले
मया दत्तं मुखेऽस्याश्च शीतलं जलमुत्तमम् । तदा श्वासो बभूवास्याश्चेतनं बाल्यमेव च
क्षणं वदति हे नाथ हे कृष्णेति क्षणं सखी । क्षणं रोदिति संतप्ता मूर्च्छां प्राप्नोति तत्क्षणम्
राधिकायाः शरीरं च संतप्तं विरहानलैः । दग्धलोहयष्टिसममस्पृश्यमनलोपमम्
स्वप्ने जागनणे रात्रौ दिवसे च गृहे वने । जले स्थले चान्तरिक्षेऽभ्युदये चन्द्रसूर्ययोः
नास्ति भेदश्च राधाया मृततुल्या जडाकृतिः । शश्वत्पश्यति स्थानस्था सर्वं विष्णुमयं जगत्